Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316

Containing 60 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 1

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे श्रीवेङ्कटेशगिर्यारोहणक्रमतद्भक्ततत्पर्वतनामादिनिरूपणं नाम चतुर्विशोऽध्यायः श्रीगरुडमहापुराणम्- २५ सा द्वारदेशे श्रीनिवासस्य देवी स्वामिपुष्करिणीं ददृशे कैश्च सार्धम् ।

स्वामिन्हरे श्रीनिवासेति सा तं ब्रह्मादीनां तारकं सम्प्रदध्यौ ॥

३,२५.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 2

देवैः सार्धं पालनार्थं च विष्णुरस्त्येव नित्यं पुष्करिण्यां जलेषु ।

अतः स्वामिपुष्करिणीति चाहुस्तत्र स्नानं कन्यकान्याश्च चक्रुः ॥

३,२५.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 3

शुचिर्भूत्वा श्रीनिवासं च देवास्तुप्तुं विविशुः शुद्धभक्त्या खगेन्द्र ।

यथोपदिष्टं गुरुणा तथैव चक्रे कन्याश्च सर्वं खगेन्द्र ॥

३,२५.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 4

तदा हरिं दर्शयामास तस्यै स्वकं रूपं सुप्रतीके सुपूर्णम् ।

सा कन्यका श्रीनिवासस्य रूपं ददर्श भक्त्या स्वमनोभिरामम् ॥

३,२५.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 5

सुवर्णचित्रं वसनं वसानं सोष्णीषकं कञ्चुकं संदधानम् ॥

३,२५.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 6

मृगोत्थमदगन्धेन सुरभीकृतदिङ्मुखम् ।

पुण्डरीकविशालाक्षं कंबुग्रीवं महाभुजम् ॥

३,२५.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 7

हेमयज्ञोपवीताङ्गं साक्षात्कन्दर्पसन्निभम् ।

जगन्मोहनसैन्दर्यं कोमलाङ्गं मनोहरम् ॥

३,२५.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 8

दृष्ट्वा च कन्या मुमुदे रोमाञ्चितसुगात्रका ॥

३,२५.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 9

तद्दर्शनाह्लादपरिप्लुताशया प्रेम्णाथ रोमाश्रुकुलाकुलेक्षणा ।

ननर्त देवी पुरतस्तस्य विष्णोः सा ध्वस्तदोषा परमादरेण ।

आनन्द मां पाहि सुखं च दत्त्वा मुकुन्दा मां पाहि विमुक्तिदानात् ॥

३,२५.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 10

मां पाहि नित्यं ह्यरविन्दनेत्र प्रसन्नदृष्ट्या करुणासुधार्द्र ।

गोविन्द गोविन्द सुदुःखितां मां ज्ञानादिदानेन हि पाहि नित्यम् ॥

३,२५.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 11

जनार्दन त्वं हि सुदुष्टसंगान्कामादिरूपान्सततं वर्जयित्वा ।

हरे हरे मां सततं पाहि दैत्यान्समाहृत्य प्रबलान्विघ्नरूपान् ॥

३,२५.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 12

रमेश मां पाहि चतुर्मुखेश विश्वेश मां पाहि सरस्वतीश ।

रमेश मां पाहि निदानमूर्ते वृन्दारवृन्दैर्वन्दितपादपद्म ॥

३,२५.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 13

एवं तु नत्वा परमादरेण तुष्टाव विष्णुं परमं पुराणम् ।

लक्ष्म्या सदा येऽविदिता गुणाश्च असंख्याताः संति विष्णौ च वीश ॥

३,२५.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 14

तेषां सकाशादतिबाहुल्यसंख्या गुणा हरौ तेऽविदिता वै रमायाः ।

अतो हरे स्तवने क्वास्ति शक्तिस्तथापि यत्नं स्तवने ते करिष्ये ॥

३,२५.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 15

तव प्रसादाच्च रमाप्रसादाद्विधिप्रसादात्भारतीशप्रसादात् ।

रुद्रप्रसादात्स्तवनं ते करिष्ये तथापि विष्णो मयि शान्तिं कुरुष्व ॥

३,२५.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 16

यदि प्रसन्नोऽसि मयि त्वमीश त्वत्पादमूले देहि भक्तिं सदैव ।

त्वद्दर्शनाद्देव शुभाशुभं च नष्टं मदीयं ह्यशुभं च नित्यम् ॥

३,२५.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 17

त्वन्मायया नष्टमिमं च लोकं मदेन मत्तं बधिरं चान्धभूतम् ।

ऐश्वर्ययोगेन च यो हि मूको जातः सदा दीनागुर्वादिकेषु ॥

३,२५.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 18

मा देहि ऐश्वर्यमनुत्तमं त्वत्पादारविन्दस्य विरुद्धभूतम् ।

त्वं देव मे देहि सतां च संगं तव स्वरूपप्रतिपादकानाम् ॥

३,२५.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 19

पुत्रादीनामैहिकं वासुदेव दग्ध्वा च मे देहि पादारविन्दे ।

सद्वष्णवे क्रियमाणं च कोपं दग्ध्वा च मे देहि पादरविन्दे ॥

३,२५.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 20

द्रव्यादिके क्रियमाणं च लोभं दग्ध्वा वै मे देहि पादाब्जमूले ।

पुत्रादिके क्रियमाणं च मोहं दग्ध्वा च मे देहि पादाब्जमूले ॥

३,२५.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 21

विद्यां पुत्रं द्रव्यजातं मदं च दग्ध्वा च मे देहि पादाब्जमूले ।

सद्वैष्णवासहमानस्वरूपं दग्ध्वा मात्सर्यं पाहि मां वेङ्कटेश ॥

३,२५.२१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 22

मन्त्रं च मे देहि निदानमूर्ते येनैव मे स्यात्तव संगश्च भूयः ।

नान्यं वृणे तव पादाब्जसंगात्तदेव मे देहि मम प्रसन्नः ॥

३,२५.२२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 23

इतीरितः श्रीनिवासः प्रसन्न उवाच देवो ह्यमृतस्त्रवं च ।

अत्रैव कन्ये प्रजपस्व मन्त्रं सुगोप्यरूपं परमादरेण ॥

३,२५.२३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 24

वक्ष्यामि मन्त्रं परमादरेण श‍ृण्वद्य भक्त्या परमादरेण ।

अन्तः स्थमन्त्यं ह्याद्यसंयुक्तमेव सबिन्दु तद्वत्स्पर्शकाद्येन युक्तम् ॥

३,२५.२४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 25

एकारयुक्तं प्रथमान्तः स्थयुक्तं समत्रिकोणे चोष्मणा संयुतं च ।

तकारसक्तं स्वर्शमन्तः स्थयुक्तमाद्यन्त ओंकारसमन्वितं च ॥

३,२५.२५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 26

अनेन मन्त्रेण तवेप्सितं च भवेद्धि कन्ये नान्त्र विचार्यमस्ति ।

एवं स उक्त्वा श्रीनिवासो हरिस्तु प्रतीकवद्दर्शयामास रूपम् ॥

३,२५.२६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 27

नत्वा तु सा श्रीनिवासं च देवी उवास ह स्वामिसरः समीपे ।

तस्मिन्दिने ब्राह्मणादींश्च सर्वान्संतर्पयामास च षड्रसान्नैः ॥

३,२५.२७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 28

सायङ्काले श्रीनिवासस्य दृष्ट्वा उत्साहरूपैः श्रीनिवासप्रतीकैः ।

साकं भक्त्या सम्प्रणम्याथ देवी प्रदक्षिणं श्रीनिवासस्य सुष्ठु ॥

३,२५.२८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 29

ननर्त देवी सुप्रतीकस्य चाग्रे लज्जां त्यक्त्वा जय देवेति चोक्त्वा ।

आनृत्तकाले च हरेश्च वक्त्रं दृष्ट्वा च दृष्ट्या तु परं ननर्त ॥

३,२५.२९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 316, Verse 30

ममाद्य गात्रं पावितं श्रीनिवास ममाद्य नेत्रं सफलं संबभूव ।

ममाद्य पादौ सार्थकौ चैव जातौ प्रदक्षिणं श्रीनिवासेश कृत्वा ॥

३,२५.३० ॥