Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313

Containing 85 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 1

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे भगवतः कालिन्द्या विवाहे हेतुनिरूपणं नामैकविंशोऽध्यायः श्रीगरुडमहापुराणम्- २२ श्रीकृष्ण उवाच ।

या लक्ष्मणा पूर्वसर्गे खगेन्द्र पुत्री ह्यभूद्वह्निवेदस्य वेत्तुः ।

सुलक्षणैः संयुतत्वाद्यतः सा सुलक्ष्मणेति प्रथिता खगेन्द्र ॥

३,२२.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 2

यथा लक्ष्मीर्लक्षणैः सा सुपूर्णा यथा हरिर्लक्षणैर्वै सुपूर्णः ।

यथा वायुर्लक्षणैः पूर्ण एव यथा गायत्री लक्षणैः सा सुपूर्णा ॥

३,२२.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 3

यथा रुद्राद्या लक्षणैर्वै प्रपूर्णा रुद्रादिल्लक्ष्मणा चैव पूर्णा ।

गुणेनैवं धर्मतः किञ्चिदेव तथानुसंधानाद्व्रियते नाम चापि ॥

३,२२.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 4

तस्मा दाहुर्लक्ष्मणेत्येव सर्वे तल्लक्षणं श‍ृणु चादौ खगेन्द्र ।

नारायणे पूर्णगुणे रमेशे द्वात्रिंशत्संख्यानि सुलक्षणानि ॥

३,२२.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 5

संत्येव पक्षीन्द्र वदाम्यनु क्रमान्मत्तः श्रुत्वा मोक्षमाप्नोति नित्यम् ।

यः सप्तपादः षण्णवत्यङ्गुलोङ्गश्चतुर्हस्तः पुरुषस्तीक्ष्णदन्तः ॥

३,२२.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 6

य एतत्सर्वं मिलितं चैकमेव हरेर्विष्णोर्लक्षणं चाहुरार्याः ।

मुखं स्त्रिग्धं वर्तुलं पुष्टिरूपं द्वितीयं तल्लक्षणं चाहुरार्याः ॥

३,२२.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 7

हनुर्यस्यानुन्नतं चास्ति वीन्द्र तल्लक्षणं प्राहुरार्यास्तृतीयम् ।

यद्दन्ता वै तीक्ष्णसूक्ष्माश्च संति तल्लक्षणं चाहुरार्याश्चतुर्थम् ॥

३,२२.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 8

यस्याधरे रक्तिमा त्वस्ति वीन्द्र तल्लक्षणं पञ्चमं चाहुरार्याः ।

यस्य हस्ता अतिरक्ताः खगेन्द्र तल्लक्षणं प्राहुरार्याश्च पष्ठम् ॥

३,२२.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 9

यस्मिन्नखाः संति रक्ताः सुशोभास्तल्लक्षणं सप्तमं चाहुरार्याः ।

यस्मिन्कपोले रक्तिमा त्वस्ति वीन्द्र तल्लक्षणं ह्यष्टमं प्राहुरार्या ॥

३,२२.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 10

यस्मिन्करे शङ्खचक्रादिरेखा वर्तन्ते तन्नवमं प्राहुरार्याः ।

यस्यो दरं तन्तुरूपं सुपुष्टं वलित्रयैरङ्कितं सुंदरं च ॥

३,२२.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 11

तल्लक्षणं दशमं प्राहुरार्या एकादशं निम्ननाभिं तदाहुः ।

ऊरुद्वयं यस्य च मांसलं वै तल्लक्षणं द्वादशं प्राहुरार्याः ॥

३,२२.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 12

कटिर्हि दीर्घा पृथुलास्ति यस्य त्रयोदशं लक्ष्म तदाहुरार्याः ।

यस्यास्ति मुष्को सुपरिष्ठितो वै चतुर्दशं लक्ष्म तदाहुरार्याः ॥

३,२२.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 13

समुन्नतं शिश्रमथो हि लक्ष्म यस्यास्ति तत्पञ्चदशं वदन्ति ।

सुताम्रकं पादतलं खगेन्द्र तल्लक्षणं षोडशं प्राहुरार्याः ॥

३,२२.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 14

निम्नौ च गुल्फौ सप्तदशं तदाहुर्ग्री वारूपं प्राहुरष्टादशं च ।

एकोनविंशं त्वक्षिपद्मं सुरक्तं प्राहुर्बाहुं जानु विंशं तथैव ॥

३,२२.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 15

विस्तीर्णोरश्चैकविंशं तदाहुः सिंहास्कन्धं द्व्युत्तरं विंशमाहुः ।

त्रयोविंशं सूक्ष्ममास्यं तदाहुश्चतुर्विशं सुप्रसन्ने च दृष्टी ॥

३,२२.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 16

ह्रस्वं लिङ्गं मार्दवं चापि वीन्द्र तल्लक्षणं पञ्चविंशं वदन्ति ।

समौ च पादौ कटिजानु चोरू षड्विंशमाहुश्च समे च जङ्घे ॥

३,२२.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 17

समानहस्तौ समकर्णौ मिलित्वा द्वात्रिंशत्कं लक्षणं प्राहुरार्याः ।

द्वात्रिंशत्कं लक्षणं वै मुकुन्दे द्वात्रिंशत्कं लक्षणं वै रमायाम् ॥

३,२२.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 18

द्वात्रिंशत्कं लक्षणं ब्रह्मणोऽपि तद्भारत्याः प्रवदन्त्येव सत्यम् ।

तथा च शङ्का सममेव चक्रिणेत्येवं सदामा कुरु निर्णयं ब्रुवे ॥

३,२२.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 19

एकस्य वै लक्षणस्यापि विष्णोर्लक्ष्मीरन्तं नैव सम्यक्प्रपेदे ।

अतोनन्तैर्लक्षणैः संयुतं च हरिं चाहुर्लक्षणज्ञाः सदैव ॥

३,२२.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 20

जानाति लक्ष्मीर्लक्षणं वायुरूपे स्वापेक्षया ह्यतिरिक्तं खगेन्द्र ।

स्वलक्षणापेक्षया भारती तु शतैर्गुणैरधिका वेधसोऽपि ॥

३,२२.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 21

खगेन्द्र तस्माल्लक्षणे साम्यचित्तं विश्वादीनां सर्वदा मा कुरुष्व ।

अष्टाविंशतिं प्राहू रुद्रादिकानां भ्रूनेत्रयोर्लक्षणेनैव हीनाः ॥

३,२२.२१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 22

अलक्षणं मन्यते यद्धि तस्य दुर्लक्षणं नैव तच्चिन्तनीयम् ।

अष्टाविंशतिं लक्षणं वै हरस्य न भारतीवच्चिन्तनीयं खगेन्द्र ॥

३,२२.२२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 23

अतो हरः क्रोधरूपी सदैव तयोरभावात्सत्यमुक्तं तथैतत् ।

अतो द्वयं नास्ति रुद्रे खगेन्द्र शिश्रोदरे किञ्चिदाधिक्यमस्ति ॥

३,२२.२३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 24

सप्ताधिकैर्विशतिलक्षणैस्तु समायुताः स्वस्त्रियो लक्ष्मणाद्याः ।

षड्वविंशत्या लक्षणैश्चापि युक्ता वारुण्याद्या पञ्चविंशैश्च चन्द्रः ॥

३,२२.२४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 25

अर्थश्चतुर्विंशतिभिश्चैव युक्तो नासावायोर्द्व्यधिका विंशतिश्च लक्षणैश्चैकविंशत्या शची युक्ता न संशयः ॥

३,२२.२५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 26

प्रवाहा विंशकैर्युक्ता यम एकोनविंशकैः ।

पाश्यष्टादशभिर्युक्तो दशसप्तयुतोऽनलः ॥

३,२२.२६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 27

वैवस्वतः षोडशभिमित्रः पञ्चदशैर्युतः ।

चत्रुर्विंशैस्तु धनपः पावकस्तु त्रयोदशैः ॥

३,२२.२७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 28

गङ्गा द्वादशभिर्युक्ता बुध एकादशैर्युतः ।

शनिस्तु दशसंख्याकैः पुष्करो नवभिर्युतः ॥

३,२२.२८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 29

अथ षोडशसाहस्रं भार्यारतु मम वल्लभाः ।

अष्टभिश्चैव संयुक्ताः सप्तभिः पितरस्तथा ॥

३,२२.२९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 313, Verse 30

षड्भिश्च देवगन्धर्वाः पञ्चभिस्तदनन्तराः ।

चतुर्भैः क्षितिपाः प्रोक्तास्त्रिभिरन्ये च संयुताः ॥

३,२२.३० ॥