Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310

Containing 75 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 1

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे रुद्ररोदनहेत्वाननन्तानन्दतारतम्यनिरूपणं नामाष्टादशोध्यायः श्रीगरुडमहापुराणम्- १९ गरुड उवाच ।

त्वयोक्तं कृष्ण गोविन्द रुद्राच्छतगुणादपि ।

ब्रह्माणी भारती चोभे अधिके देवसत्तम ॥

३,१९.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 2

मया श्रुतं विरिञ्चेन उमापर्यन्तमेव च ।

अनन्तांशैर्विहीनत्वं विरिञ्चोक्तं सुराधिप ॥

३,१९.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 3

सहस्रांशैर्विहीनत्वं त्वयोक्तं कृष्ण माधव ।

सर्वेषां चैव पूर्वेषामवेक्ष्यैव हरे विभो ॥

३,१९.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 4

ज्ञानानन्दबलादीनां वायुपर्यन्तमेव च ।

सहस्रांशैर्विहीनत्वं ज्ञानादीनां महेश्वर ॥

३,१९.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 5

निर्णयं ब्रृहि गोविन्द सर्वज्ञोऽसि न संशयः ।

गरुडेनैवमुक्तस्तु वासुदेवोब्रवीद्ध्रुवम् ॥

३,१९.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 6

श्रीकृष्ण उवाच ।

आनन्दांशैर्विहीनत्वमपेक्ष्यैव खगाधिप ।

उत्तरेषामुत्तरेषां योगादेवमिति स्फुटम् ॥

३,१९.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 7

परिमाणे शतगुणे आनन्दे स्फुटतावशात् ।

अनन्तगुणवत्त्वं च ब्रह्मणा समुदीरितम् ॥

३,१९.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 8

सहस्रगुणितत्वं च वायुना समुदीरितम् ।

यथानन्दे तथा ज्ञाने विष्णौ भक्तौ बलाधिके ॥

३,१९.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 9

सर्वे गुणैः शतगुणाः क्रमेणोक्ता नु तेऽखिलाः ।

भारत्याश्च शतं ज्ञानं सुखं भक्तिबलाधिके ॥

३,१९.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 10

एवं ज्ञानं सुविज्ञेयं मारुतेस्तु बलादिकम् ।

एवं ज्ञानं शतं ज्ञेयं मारुते नात्र संशयः ॥

३,१९.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 11

भारत्याश्च शतं ज्ञानं बलं च समुदाहृतम् ।

एवमेव च वायोश्च ज्ञानं चैवमिति स्फुटम् ॥

३,१९.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 12

यथा दीपाच्छतगुणा अग्निज्वाला न दीपवत् ।

स्फुटीभवेद्यथैवाग्निर्बहुलोऽपि न सूर्यवत् ॥

३,१९.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 13

यथैव सूर्याद्द्विगुणश्चन्द्रो नैव स्फुटीभवेत् ।

आनन्दतारतम्यं च यथोक्तं तु मया तव ॥

३,१९.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 14

तथैव जानीहि खग नान्यथा तु कथञ्चन ।

अहं विजानामि मयि स्थितान्गुणान्सर्वैर्विशेषैश्च खगेन्द्र संयुतान् ॥

३,१९.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 15

सुसूक्ष्मरूपांश्च सदा खगेन्द्र मयाप्यदृष्टो नास्ति नास्त्येव कश्चित् ॥

३,१९.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 16

सर्वावतारेष्वपि विद्यमानं हरिं विजानाति रमापि देवी ॥

३,१९.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 17

हरेर्गुणान्सर्वविशेषसंयुतानखण्डरूपान्सा विजानाति देवी ।

सुसूक्ष्मरूपान्सा विजानाति देवी ब्रह्मादिभ्यो मत्प्रसादाधिकं च ॥

३,१९.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 18

स्वात्मस्वरूपं प्रविजानाति देवी सुसूक्ष्मरूपं सुविशेषैश्च युक्तम् ।

स्वान्यं प्रपञ्चं प्रविजानाति लक्ष्मीस्तथाप्यशेषैः सुविशेषैश्च युक्तम् ॥

३,१९.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 19

ब्रह्मापि पश्येत्सर्वगं वासुदेवं वाय्वादिभ्यो ह्यधिकान्सद्गुणांश्च ।

श्रोत्रं न जानाति हरेर्गुणांश्च सुसूक्ष्मरूपांश्च विशेषसंयुतान् ॥

३,१९.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 20

स्पष्टस्वरूपेण यथा विदुः सुरा मुक्त्वा ब्रह्माणं न तथा तेप्यमुक्ताः ।

स्वात्मानमन्यच्च सदा विशेषर्युक्तं विजानाति विधिश्च मारुतः ॥

३,१९.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 21

वाणी विजानाति हरेर्गुणांश्च स्वयंभुवो नैव तावद्विशेषान् ।

त्रैगुण्यरूपात्परतः सदैव पश्येद्विष्णुं कृष्णरूपं खगेन्द्र ॥

३,१९.२१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 22

शेषो रुद्रो वीन्द्र एतैश्च सर्वे तमो मात्रे प्रविजानन्ति संस्थम् ।

वाणीदृष्टान्सविशेषान्गुणांस्ते जानन्ति नो सत्यमेवोक्तमङ्ग ॥

३,१९.२२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 23

उमा सुपर्णा वारुणी चेति तिस्रः सहैव तः प्रविजानन्ति सुस्थम् ।

हरेर्विशेषानरुद्र दृष्टान्खगेन्द्र जानन्ति नैताः क्वापि देशे च काले ॥

३,१९.२३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 24

इन्द्रादयः प्रविजानन्ति वीन्द्र अहङ्कारे व्याप्तरूपं हरिं च ।

दक्षाद्या वै बुद्धितत्त्वे स्थितं तं जानन्ति ते सोमसूर्यादयश्च ॥

३,१९.२४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 25

विष्णुं हरिं भूततत्त्वे स्थितं च ये चान्ये च प्रविजानन्ति नित्यम् ।

अन्ये च पश्यन्ति यथा स्वयोग्यमण्डान्तरस्थं हरिरूपं खगेन्द्र ॥

३,१९.२५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 26

केचित्प्रपश्यन्ति हरेश्च रूपं त्वदीयहृत्स्थं हृदि केचित्सदैव ।

एवंप्रकारं प्रविजानीहि वीन्द्र ह्यथो श‍ृणु त्वमम भार्याः षडेताः ॥

३,१९.२६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 27

रुक्मिण्याद्याः षण्महिष्यो ममश्रीर्नीला च या मम भार्या खगेन्द्र ।

सर्गे पूर्वस्मिन्हव्यवाहस्य पुत्री तास्ता भजे सद्य एवा विशेषात् ॥

३,१९.२७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 28

कन्यैव सा कृष्णपत्नी च कामांस्तांस्तान्भजेन्मनसा चिन्तितांश्च ।

अतीव यत्नं कव्यवाहं खगेन्द्र पितृष्वेकः सर्वदा वै चकार ॥

३,१९.२८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 29

तथैव सा नैव भर्तारमाप यतस्तु सा कृष्णनिष्ठैकचित्ता ॥

३,१९.२९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 310, Verse 30

तदाब्रवीत्कव्यवाहश्च पुत्ररिं पतिं किमर्थं नेच्छसि मूढबुद्धे ।

तदाब्रवीत्कव्यवाहं च पुत्त्री हरिं विना सर्वगुणोपपन्ने ।

जन्मन्यस्मिन्भर्तृता नास्ति देव यतो भर्ता हरिरवैक एव ॥

३,१९.३० ॥