Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309

Containing 78 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 1

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे भारत्या विशिष्टदेह सम्प्राप्त्यै कारणनिरूपणं नाम सप्तदशोऽध्यायः श्रीगरुडमहापुराणम्- १८ श्रीकृष्ण उवाच ।

अथानन्तरजान्वक्ष्ये श‍ृणु पक्षीन्द्रसत्तम ।

श‍ृणु तान्सावधानेन श्रुत्वा तानवधारय ॥

३,१८.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 2

पुरुषाख्यविरिञ्चानुजातः शेषो महाबलः ।

हरे रमायाश्च यस्य स्वस्मिन्निद्रां प्रकुर्वतः ॥

३,१८.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 3

शयनार्थमभूदेष तेन कृत्यं हरेर्न तु ।

सर्वदा हरिदासोऽहं सर्वदा हरिपूजकः ॥

३,१८.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 4

हरे सदा नमामि त्वां बहु जन्मनि जन्मनि ।

एवं बुद्धा तु गरुडो ह्यभूच्च शयनं हरेः ॥

३,१८.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 5

सूत्रनाम्नस्तथा वायोः सदायं विनतासुत ।

कालनामा च गरुडो वाहनार्थं हरेरभूत् ॥

३,१८.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 6

ततो महत्तत्त्वतनोर्विरिञ्चात्तु खगेश्वर ।

अहं कारात्मको रुद्रः समभूत्सोवितुं हरिम् ॥

३,१८.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 7

त्रय एते महाभाग परस्परसमाः स्मृताः ।

गायत्रीभारतीभ्यां ते त्रयः शतगुणा वराः ॥

३,१८.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 8

शेषः स एव विज्ञेयो भक्तो नारायणस्य च ।

विष्णोर्वायोरनन्तस्य त्रिभिरंशैर्युतः सदा ॥

३,१८.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 9

सुमित्रांशो दशरथाज्जातो यो लक्ष्मणः खग ।

सोऽपि शेषस्तु विज्ञेयो वाय्वनन्तांशसंयुतः ॥

३,१८.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 10

रामस्य सेवां कर्तुं सा सीता भूम्यां खगाधिप ।

बलभद्रस्तु रोहिण्यां वसुदेवादभूत्खग ॥

३,१८.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 11

सोयमेप तु विज्ञेयस्त्वंशद्वयसमन्वितः ।

आविष्टः शुक्लकृष्णे हरिणा रोहिणीसुतः ॥

३,१८.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 12

त्रय एते माहाभागावताराः फणिनः स्मृताः ।

न वीन्द्रास्यावतारोस्ति भूम्यां चाज्ञा तथा हरेः ॥

३,१८.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 13

रुद्रावतारान्वक्ष्येहं ताञ्छृणु त्वं समाहितः ।

योहङ्कारात्मको रुद्रः स एवाभूत्खगेश्वर ॥

३,१८.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 14

सदाशिव इति त्वाख्यामवाप स विनाशकः ।

तमोभिमानी स ज्ञेयस्त्वशिवत्वात्सदाशिवः ॥

३,१८.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 15

कपालमालामशिवां सदा धारयते यतः ।

अतः सदाशैवो ज्ञेयो न च भागवतः शिवः ॥

३,१८.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 16

गजाजिनं चापवित्रं यतो धारयते हरः ।

लोकानमङ्गलान्सर्वान्हरते च सदा हरः ॥

३,१८.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 17

हर्याज्ञया सदा लोकान्विपयासक्तचेतसः ।

विमुखान्कुरुते यस्माद्विष्णोस्तस्मात्सदाशिवः ॥

३,१८.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 18

कदाचिदसुरावेशाद्विरुद्धं कुरुते हरः ।

अतः सदाशिवो ज्ञेयो न च भागवतः शिवः ॥

३,१८.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 19

सोयं श्मशानवसतिं कर्तुमैच्छद्यतो हरः ।

अतः सदाशिवो ज्ञेयो न च भागवतः शिवः ॥

३,१८.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 20

दशवर्षं तपः कर्तुं विवेश लवणांभसि ।

अतो रुद्रस्तपः संज्ञामवाप च खगोत्तम ॥

३,१८.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 21

व्यासपुत्रः शुकः प्रोक्तो वायोरावेशसंयुतः ।

रुद्रावतारो विज्ञेयो ज्ञानार्थमभवद्भुवि ॥

३,१८.२१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 22

अत्रिपत्न्यनुसूयायां जज्ञे रुद्रो महातपाः ।

दुर्वासास्तु स विज्ञेयो मानभङ्गाय भूभृताम् ॥

३,१८.२२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 23

द्रोणाज्जातो द्रौणिसंज्ञो रुद्र एव प्रकीर्तितः ।

प्रारब्धं भोक्तुकामोसौ परपक्षप्रकाशकः ॥

३,१८.२३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 24

ईशानकोणे संस्थितो यस्तु रुद्रो ह्यवाप वै वामदेवेति संज्ञाम् ।

स्ववामभागे संस्थितं चैव वायुस्तं योग्यभक्तं सेवते सर्वदैव ॥

३,१८.२४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 25

अतो रुद्रो वामदेवेति संज्ञा मवाप शिष्टत्वमथोत्तमत्वम् ।

कालात्मकत्वं च बलात्मकत्वमवाप रुद्रो न तु सुंदरत्वतः ॥

३,१८.२५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 26

सदा रुद्रो त्रिपुरस्थांश्च दैत्यान्विष्णुदुहो हन्तु कामो महात्मा ।

अघोररूपं धृपवान्रुद्र एव ततस्त्वघोरेति स आप संज्ञाम् ॥

३,१८.२६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 27

सेवां कर्तुं त्विच्छतो दैत्यसंघान्किञ्चित्कालं तपसा क्लिश्यमानान् ।

वरान्दातुं सद्य एवाभिजातः सद्योजातेत्येव संज्ञामवाप ॥

३,१८.२७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 28

उरोः पुत्रस्तु और्वश्च रुद्र एव प्रकीर्तितः ।

इत्यकृष्टवाचित्वाद्रुस्तुरोदनवाचकः ॥

३,१८.२८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 29

उरू रुद्रो ह्यतः प्रोक्तस्तत्पुत्रश्चौर्वसंज्ञकः ।

रुद्रमुर्वरितं कर्तुमौर्वोभूद्रुद्र एव सः ॥

३,१८.२९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 309, Verse 30

गरुड उवाच ।

रोदनं कुरुते कस्मादुरुसंज्ञो हरे हरः ।

रुदमुर्वरितं कस्मात्कुरुते और्वाकारकः ॥

३,१८.३० ॥