Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307

Containing 102 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 1

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे विष्णोरवतारनिरूपणं नाम पञ्चदशोऽध्यायः श्रीगरुडमहापुराणम्- १६ श्रीकृष्ण उवाच ।

महालक्ष्म्याः स्वरूपं च अवतारान्खगेश्वर ।

श‍ृणु सम्यङ्महाभाग तज्ज्ञानस्य विनिर्णयम् ॥

३,१६.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 2

ईशादन्यस्य जगतो ह्यात्मो लोचन एव तु ।

विषयीकुरुते तत्स्याज्ज्ञानं लक्ष्म्याः प्रकीर्तितम् ॥

३,१६.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 3

नित्यावियोगिनी देवी हरिपादैकसंश्रया ।

नित्यमुक्ता नित्यबुद्धा महालक्ष्मीः प्रकीर्तिता ॥

३,१६.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 4

मूलस्य च हरेर्भार्या लक्ष्मीः सम्प्रकीर्तिता ।

पुंसो हिभार्या प्रकृतिः प्रकृतेश्चा भिमानिनी ॥

३,१६.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 5

सृष्टिं कर्तुं गुणान्वीन्द्र पुरुषेण सह प्रभो ।

तमः पानं तथा कर्तुं प्रकृत्याख्या तदाभवत् ॥

३,१६.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 6

वासुदेवस्य भार्या तु माया नाम्नी प्रकीर्तिता ।

संकर्षणस्य भार्या तु जयेति परिकीर्तिता ॥

३,१६.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 7

अनिरुद्धस्य भार्या तु शान्ता नाम्नीति कीर्तिता ।

कृतिः प्रद्युम्नभार्यापिं सृष्टिं कर्तुं बभूवह ॥

३,१६.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 8

विष्णुपत्नी कीर्तिता च श्रीदेवी सत्त्वमानिनी ।

तमोभिमानिनी दुर्गा कन्यकेति प्रकीर्तिता ॥

३,१६.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 9

कृष्णावतारे कन्येव नन्दपुत्रानुजा हि सा ।

रजोभिमानिभूदेवी भार्या सा सूकरस्य च ॥

३,१६.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 10

वेदाभिमानिनी वीन्द्र अन्नपूर्णा प्रकीर्तिता ।

नारायणस्य भार्या तु लक्ष्मीरूपा त्वजा स्मृता ॥

३,१६.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 11

यज्ञाख्यस्य हरेर्भार्या दक्षिणा सम्प्रकीर्तिता ॥

३,१६.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 12

जयन्ती वृषभस्यैव पत्नी सम्परिकीर्तिता ।

विदेहपुत्री सीता तु रामभार्या प्रकीर्तिता ॥

३,१६.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 13

रुक्मिणीसत्यभामा च भार्ये कृष्णस्य कीर्तिते ।

इत्यादिका ह्यनन्ताश्चाप्यावताराः पृथग्विधाः ॥

३,१६.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 14

रमायाः संति विप्रेन्द्र भेदहीनाः परस्परम् ।

अनन्तानन्तगुणकाद्विष्णोर्न्यूनाः प्रकीर्तिताः ॥

३,१६.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 15

अथ ब्रह्मा च वायुश्च श्रियः कोटिगुणाधमौ ।

वक्ष्ये च ब्रह्मणो रूपं श‍ृणु पक्षीन्द्रसत्तम ॥

३,१६.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 16

वासुदेवात्समुत्पन्नो मायायां च खगेश्वर ।

स एव पुरुषोनाम विरिञ्च इति कीर्तितः ॥

३,१६.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 17

अनिरुद्धात्तु शान्तायां महत्तत्त्वतनुस्त्वभूत् ।

तदा महान्विरिञ्चेति संज्ञामाप खगेश्वर ॥

३,१६.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 18

रजसात्र समुत्पन्नो मायायां वासुदेवतः ।

विधिसंज्ञो विरिञ्चः स ज्ञातव्यः पक्षिसत्तम ॥

३,१६.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 19

ब्रह्माण्डान्तः पद्मनाभो यो जातः कमलासनः ।

स चर्तुमुखसंज्ञां चाप्यवाप खगसत्तम ॥

३,१६.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 20

एवं चत्वारिरूपाणि ब्रह्मणः कीर्तितानि च ।

वायोर्नामानि वक्ष्येहं श‍ृणु पक्षीन्द्रसत्तम ॥

३,१६.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 21

संकर्षणाच्च गरुड जयायां यो वभूव ह ।

स वायुः प्रथमो ज्ञेयो प्रधान इति कीर्तितः ॥

३,१६.२१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 22

लोकचेष्टाप्रदत्वात्स सूत्रनाम्नापि कीर्तितः ।

बदरीस्थस्य विष्णोश्च धैर्येण स्तवनाय सः ॥

३,१६.२२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 23

धृतिरूपं ययौ वायुस्तस्माद्धृतिरिति स्मृतः ।

योग्यानां हरिभक्तानां धृतिरूपेण संस्थितः ॥

३,१६.२३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 24

यतो हृदि स्थितो वायुस्ततो वै धृतिसंज्ञकः ।

सर्वेषां च दृदि स्थित्वा स्मरते सर्वदा हरिम् ॥

३,१६.२४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 25

अतो वायुःस्थितिर्नाम बभूव खगसत्तम ।

अथवा वायुरेवैकः श्वेतद्वीपगतं हरिम् ॥

३,१६.२५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 26

सदा स्मरति वै वीन्द्र अतोसौ स्मृतिसंज्ञकः ।

सर्वेषां च हृदिस्थित्वा ज्ञातो विष्णोरुदीरणात् ॥

३,१६.२६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 27

अतो मे मुक्तिनामाभूद्वायुरेव न संशयः ।

ज्ञानद्वारेण भक्तानां मुक्तिदो मदनुज्ञया ॥

३,१६.२७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 28

यतो सौ वायुरेवैको मुक्तिनामा भूवह ।

विष्णौ भक्तिं वर्ध्यति भक्तानां हृदि संस्थितः ॥

३,१६.२८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 29

अतोसौ विष्णुभक्तश्च कीर्तितो नात्र संशयः ।

एषोसौ सर्वजीवानां चित्तसंज्ञानमेव च ॥

३,१६.२९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 307, Verse 30

चित्तरूपो यतो वायुरतश्चित्तमिति स्मृतः ।

प्रभुः प्रभूणां गरुड सोदराणां च सर्वशः ॥

३,१६.३० ॥