Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302

Containing 48 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 1

इति श्रीगारुडे महापुराणे श्रीकृष्णगरुडसंवादे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे ब्रह्माण्डादिवैकृतैकदेशप्राकृतसृष्टिनिरूपणं नाम दशमोऽध्यायः श्रीगरुडमहापुराणम्- ११ श्रीकृष्ण उवाच ।

पुरुषाख्यो हरिः साक्षाद्भगवान्पुरुषोत्तमः ।

शिश्येत्वण्डोदक विष्णुर्नृणां साहस्रवत्सरम् ।

लक्ष्मीश्चोदकरूपेण शय्यारूपेण भोण्डजा ॥

३,११.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 2

विद्या तरङ्गरूपेण वायुरूपेण भोण्डज ॥

३,११.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 3

तमोरूपेण सैवासी न्नान्यदासीत्कथञ्चन ।

असीद्गर्भोदके चैव नान्यदासीत्कथञ्चन ॥

३,११.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 4

लक्ष्मीस्तुष्टाव च हरिं गर्भोदे पक्षिसत्तम ।

लक्ष्मीधराभ्यां रूपाभ्यां प्रकृतिर्हरिणा तथा ॥

३,११.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 5

शेत श्रुतिस्वरूपेण स्तौति गर्भोदके हरिम् ।

नारायण नमस्तेऽस्तु श‍ृणु विज्ञापनं मम ॥

३,११.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 6

अजां जहि महाभाग योग्यानां मुक्तिमावह ।

अजा तु प्रकृतिः प्रोक्ता चापरा प्रकृतिः परा ॥

३,११.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 7

शततोवरा तु ब्रह्माणी ब्रह्मपत्नी वरानना ।

उमा शच्यवरा तस्या अवराः सम्प्रकीर्तिताः ॥

३,११.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 8

एतासां हननं नैव प्रार्थयामः सदा हरे ।

अस्ति प्रतिनृषु ब्रह्म प्रकृती द्वे व्यवस्थिते ॥

३,११.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 9

एका तु नित्यसंसारा त्वजशब्दाभिधायिका ।

द्वितीया तु तमोऽपोह्या अजशब्दाभिधायिका ॥

३,११.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 10

अत एव त्वजे ज्येष्ठे इति लोके प्रकीर्तिते ।

सुखदुःखप्रदा चैव अपरा दुःखदैव तु ॥

३,११.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 11

मोक्षाधिकारिणामेव ज्ञानैश्वर्यादयो गणाः ।

तेषामाच्छादिका होका तमोङ्गा सा प्रकीर्तिता ॥

३,११.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 12

जीवं प्रति महाविष्णुं पाह्याच्छादयति प्रभो ।

सा परा प्रकृतिर्ज्ञेया परमाच्छादिका स्मृता ॥

३,११.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 13

एवं सा परमा दुष्टा होका तमोङ्गा तु प्रकीर्तिता ।

जीववर्गेष्वेव खग ब्रह्मादेर्नास्ति सा क्वचित् ॥

३,११.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 14

पिशाचवत्समुद्दिष्टा जीवस्येत्यधिकारिणः ।

प्रेरिका तु तयोर्देव्यो स्त्वहमाद्या सुखात्मिका ॥

३,११.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 15

तत्र विष्णो महाभाग सगुणाच्छादको हितः ।

परमाच्छादिकां दुष्टां व्यामुच्यैव महाप्रभो ॥

३,११.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 16

मोक्षं देहि महादेव त्वद्भक्तानां महाप्रभो ।

परमाच्छादिका ह्यस्मान्नित्य संसारिणो यतः ॥

३,११.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 17

अत एव च नित्यत्वात्तस्मात्तदपसारणम् ।

कुरु देव महाभाग इति विज्ञायतां मम ॥

३,११.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 18

एवं स्तुतो हरिः कृष्णो सुप्रबुद्धोऽपि सर्बदा ।

उद्वुद्धवन्महा विष्णुरभूदज्ञपरीक्षया ॥

३,११.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 19

तस्य नाभेरभूत्पद्मं सौवर्णं भुवनाश्रयम् ।

तत्प्राकृतं च विज्ञेयं भूदेवी त्वभिमानिनी ॥

३,११.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 20

अनन्तसूर्यवच्चैव प्रकाशकरमीरितम् ।

चिदानन्दमयो विष्णुस्तस्माद्भिन्नो न संशयः ॥

३,११.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 21

विष्णोः स्वरूपभूतं च ये विजानन्ति ते नराः ।

ते यान्ति ह्यधरं लोकं तथा तत्संगिसंगिनः ॥

३,११.२१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 22

किरीटादिकवच्चैव ज्ञातव्यं च खगेश्वर ।

किरीटाद्या अपि हरेर्द्विधा संति न संशयः ॥

३,११.२२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 23

स्वरूपा ह्यस्वरूपाश्च स्वस्वरूपनि दर्शने ।

गृहीता इति विज्ञेया न स्वरूपाः खगेश्वर ॥

३,११.२३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 24

भ्माण्डं ह्यसृजत्तत्र सर्वलोकविधायकम् ।

प्रलये मुक्तिहीनश्च सुप्त इत्युच्यते बुधः ॥

३,११.२४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 25

तस्य समिवस्त्रिवं च न ज्ञातव्या खगेश्वर ।

प्रलयोऽपि महाभाग ब्रह्मवाय्वोर्न चास्ति हि ॥

३,११.२५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 26

वृत्तिरूपं परं ज्ञानं पाद्यार्घ्यं नात्र संशयः ।

इन्द्रियाणामुपरतिः सुप्तिरित्युच्यते बुधैः ॥

३,११.२६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 27

ब्रह्मवाय्वोश्च पासग्नि वास्तवं स्यात्खगेश्वर ।

कथं तर्हि तयोर्वर्ते ह्यविलत्यत्वमुच्यते ॥

३,११.२७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 28

तस्मात्तद्वास्तवं नास्ति ब्रह्मवाय्वोः खगेश्वर ।

स्वप्नावस्थायाः सदृशी ह्यवस्था सुप्तिसंज्ञिका ॥

३,११.२८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 29

ब्रह्मण्यमुख्यया वृत्त्या ह्यस्तीत्येवं निबोध मे ।

अतो न वास्तवमिदमङ्गीकार्यं खगेश्वर ॥

३,११.२९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 302, Verse 30

वास्तवं ये विजानन्ति तेषां नित्यं धनं तपः ।

श्रीगरुड उवाच ।

सुप्तिस्त्वज्ञानकार्यत्वात्सुप्तिर्नास्तीत्युदीरिता ॥

३,११.३० ॥