Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 299

Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 299, Verse 1

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे कृष्णगरुडसंवादे देवादिस्तुतितत्तत्तारतम्यनिरूपणं नाम सप्तमोऽध्यायः श्रीगरुडमहापुराणम्- ८ क्रतोरनन्तरं जातो मित्रो (श्रो) नाम खगेश्वर ।

नारायणं जगद्योनिं स्तोतुं समुपचक्रमे ॥

३,८.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 299, Verse 2

मित्र उवाच ।

नतोस्म्यज्ञस्त्वच्चरणारविन्दं भवच्छिदं स्वस्त्ययनं भवच्छिदे ।

वेद स्वयं भगवान्वासुदेवो नाहं नाग्निर्न त्रिदेवा मुनीन्द्राः ॥

३,८.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 299, Verse 3

अथापरे भागवतप्रधाना यदा न जानीयुरथापरे कुतः ।

मां पाहि नित्यं परतोप्यधीश विश्वामित्रान्न्यून एवेति नित्यम् ।

अहं पर्जन्यार्द्विगुण एव नित्यमतो मम स्तवने नास्ति शक्तिः ॥

३,८.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 299, Verse 4

एवं स्तुत्वा हरिं मित्रस्तूष्णीमास तदा खग ।

तदनन्तरजा तारा स्तोतुं समुपचक्रमे ॥

३,८.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 299, Verse 5

तारोवाच अनन्येन तु भावेन भक्तिं कुर्वन्ति ये दृढाम् ।

त्वत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः ॥

३,८.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 299, Verse 6

त्वदाश्रयां कथां श्रुत्वा (दृष्ट्वा) श‍ृण्वन्ति कथयन्ति च ।

तथैते साधवो विष्णो सर्वसंगविवर्जिताः ॥

३,८.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 299, Verse 7

तन्मध्ये पतितां पाहि सदा मित्रसमां प्रभो ।

तारानन्तरजः प्राह निरृतिश्च खगेश्वर ॥

३,८.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 299, Verse 8

निरृतिरुवाच ।

योगेन त्वय्यर्पितया च भक्त्या संयान्ति लोकाः परमां गतिं च ।

आसेवया सर्वगुणाधिकानां ज्ञानेन वैराग्ययुतेनदवे ॥

३,८.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 299, Verse 9

चित्तस्य निग्रहेणैव विष्णोर्यान्ति परं पदम् ।

अतो मां पाहि दयया सदा तारासमं प्रभो ।

तदनन्तरजा स्तोतुं प्रावही तं प्रचक्रमे ॥

३,८.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 299, Verse 10

प्रवाह्युवाच ।

सुताः प्रसंगेन भवन्ति वीर्यात्तव प्रसादात्परमाः सम्पदश्च ।

या ह्युत्तमश्लोकरसायनाः कथास्तत्सेवनादास्त्वपवर्गवर्त्मनि ॥

३,८.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 299, Verse 11

भक्तिर्भवेत्सर्वदा देवदेव सदाप्यहं निरृतेः साम्यमेव ।

सहर्भाष्यकोमित्रः त्कयीतारः प्रकीर्तिताः ॥

३,८.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 299, Verse 12

कोणाधिपो निरृतिश्च प्रावही प्रवहप्रिया ।

चत्वार एते पर्जन्यात्त्रिगुणाः परिकीर्तिताः ॥

३,८.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 299, Verse 13

तदनन्तरजान्वक्ष्ये ताञ्छृणु त्वं खगेश्वर ।

प्रवाहभार्यानन्तरजो विष्वक्सेनोथपार्षदः ।

वायुपुत्रो महाभागः हरिं स्तोतुं प्रचक्रमे ॥

३,८.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 299, Verse 14

विष्वक्सेन उवाच ।

भगवान्मोक्षदः कृष्णः पूर्णानन्दो सदायदि ।

यदि स्यात्परमा भक्तिर्ह्य परोक्षत्वसाधना ॥

३,८.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 299, Verse 15

तथा स्वगुरुमारभ्य ब्रह्मान्तेषु च साधुषु ।

तद्योग्यतानुसारेण भक्तिर्निष्कपटा यदि ॥

३,८.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 299, Verse 16

तुलस्यादिषु जीवेषु यदि स्यात्प्रीतिरण्डज ।

संस्मृतिश्च तदा नाशी भूयादेव न संशयः ॥

३,८.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 299, Verse 17

एवं स्तुत्त्वा महाभागो विष्वक्से नो महाप्रभो ।

तूष्णीं बभूव गरुड प्राञ्जलिर्नम्रकन्धरः ।

मित्रादहं न्यून एव नात्र कार्या विचारणा ॥

३,८.१७ ॥