Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298

Containing 74 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 1

इति श्रीगारुडे महापुराणे श्रीकृष्णगरुडसंवादे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे तत्त्वाभिमानितत्तद्देवताकृतविष्णुस्तुतितत्तद्देवतातारतम्यनिरूपणं नाम षष्ठोऽध्यायः श्रीगरुडमहापुराणम्- ७ श्रीकृष्ण उवाच ।

पार्वत्यानन्तरोत्पन्न इन्द्रो वचनमब्रवीत् ।

इन्द्र उवाच ।

तव स्वरूपं हृदि संविजानन्समुत्सुकः स्यात्स्तवने यस्तु मूढः ।

अजानतः स्तवनं देवदेव तदेवाहुर्हेलनं चक्रपाणे ॥

३,७.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 2

तथापि तद्वै तव नाम पूर्वं भवेत्तदा पुण्यकरं भवेदिति ।

रुद्रादि कानां स्तवने नास्ति शक्तिस्तदा वक्तव्यं मम नास्तीति किं वा ॥

३,७.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 3

गुणांशतो दशभी रुद्रतो वै सदा न्यूनो मत्समः कामदेवः ।

ज्ञाने बले समता सर्वदास्ति तथाः कामः किं च दूतः सदैव ॥

३,७.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 4

एवं स्तुत्वा देवदेवो हरिं च तूष्णीं स्थितः प्राञ्जलिर्नम्रभूर्धा ।

तदनन्तरजो ब्रह्मा अहङ्कारिक ऊचिवान् ॥

३,७.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 5

अहङ्कारिक उवाच ।

नमस्ते गणपूर्णाय नमस्ते ज्ञानमूर्तये ।

नमोऽज्ञानविदूराय ब्रह्मणेनं तमूर्तये ॥

३,७.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 6

इन्द्रादहं दशगुणैः सर्वदा न्यून उक्तो न जनि त्वां सर्वदा ह्यप्रमेय ।

तथापि मां पाहि जगद्गुरो त्वं दत्त्वा दिव्यं ह्यायतनं च विष्णो ॥

३,७.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 7

आहङ्कारिक एवं तु स्तुत्वा तूष्णींबभूव ह ।

तदनन्तरजा स्तोतुं शची वचनमब्रवीत् ॥

३,७.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 8

शच्युवाच ।

संचिन्तयामि अनिशं तव पादपद्मं वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम् ।

वागीश्वरैरपि सदा मनसापि धर्तुं नो शक्यमीश तव पादरजः स्मरामि ॥

३,७.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 9

आहङ्कारिकप्राणाच्च गुणैश्च दशभिः सदा ।

न्यूनभूतां च मां पाहि कृपालो भक्तवत्सल ॥

३,७.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 10

एवं स्तुत्वा शची देवी तूष्णीं भगवती ह्यभूत् ।

तदनन्तरजा स्तोतुं रतिः समुपचक्रमे ॥

३,७.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 11

रतिरुवाच ।

संचिन्तयामि नृहरेर्वदनारविन्दं भृत्यानुकंपितधिया हि गृहीतमूर्तिम् ।

यच्छ्रीनिकेतमजरुद्ररमादिकैश्च संलालितं कुटिलङ्कुन्तलवृन्दजुष्टम् ॥

३,७.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 12

एतादृशं तव मुखं नुवितुं न शक्तिः शच्या समापि भगवन्परिपाहि नित्यम् ।

कृत्वा स्तुतिं रतिरियं परमादरेण तूष्णीं स्थिता भगवतश्च समीप एव ॥

३,७.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 13

रत्यनन्तरजो दक्षः स्तोतुं समुपचक्रमे ॥

३,७.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 14

दक्ष उवाच ।

संचिन्तये भगवतश्चरणोदतीर्थं भक्त्या ह्यजेन परिषिक्तमजादिवन्द्यम् ।

यच्छौचनिः सृतमजप्रवरावतारं गङ्गाख्यतीर्थमभवत्सरितां वरिष्ठम् ॥

३,७.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 15

रुद्रोऽपि तेनव विधृतेन जटाकलापपूतेन पादरजसा ह्यशिवः शिवोभूत् ।

एतादृशं ते चरणं करुणेश विष्णो स्तोतुं शक्तिर्मम नास्ति कृपावतार ।

रत्या समः श्रुतिगतो न गतोऽस्मि मोक्षमेतादृशं च परिपाहि निदानमूर्ते ॥

३,७.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 16

एवं स्तुत्वा स दक्षस्तु तूष्णी मेव बभूव ह ।

तदनन्तरजः स्तोतुं बृहस्पतिरुपाक्रमीत् ॥

३,७.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 17

बृहस्पतिरुवाच ।

संचिन्तयामि सततं तव चाननाब्जं त्वं देहि दुष्टविषयेषु विरक्तिमीश ॥

३,७.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 18

एतेषु शक्तिर्यदि वै स जीवो कर्ता च भोक्ता च सदा च दाता ।

योषां च पुत्रसुहृदौ च पशूंश्च सर्वमेवं विनश्यति यतो हि तदाशु छिन्धि ॥

३,७.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 19

संसारचक्रभ्रमणेनैव देव संसारदुःखमनुभूयेहागतोऽस्मि ।

शक्तिर्न चास्ति नवने मम देवदेव सत्या समं च सततं परिपाहि नित्यम् ॥

३,७.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 20

एवं श्रुत्वा च परमं तूष्णीमेव स्थितो मुनिः ।

तदनन्तरजस्तोतुं ह्यनिरुद्धोपचक्रमे ॥

३,७.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 21

अनिरुद्ध उवाच ।

एवं हरेस्तव कथां रसिकां विहाय स्त्रीणां भगे च वदने परिमुह्य नित्यम् ।

विष्ठान्त्रपूरितबिले रसिको हि नित्यं स्थायी च सूकरवदेव विमूढबुद्धिः ॥

३,७.२१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 22

मज्जास्थिपित्तकफरफलादिपूर्णे चर्मान्त्रवेष्टितमुखे पतितं ह पीतम् ।

आस्वादने मम च पापगतेर्मुरारे मायाबलं तव विभो परमं निमित्तम् ॥

३,७.२२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 23

संसारचक्रे भ्रमतश्च नित्यं सुदुःखरूपे सुखलेशवर्जिते ।

मलं वमन्तं नवभिश्च द्वारैः शरीरमारुह्य सुमूढबुद्धिः ॥

३,७.२३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 24

नमामि नित्यं तव तत्कथामृतं विहायदेव श्रुतिमूलनाशनम् ।

कुटुंबपोषं च सदा च कुर्वन्दानाद्यकुर्वन्निवसन्गृहे च ॥

३,७.२४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 25

दूरे च संसारमलं त्विदं कुरु देहि ह्यदो दिव्यकथामृतं सदा ।

एतादृशोहं तव सद्गुणौघं स्तोतुं समर्थो नास्मि शचीसमश्च ॥

३,७.२५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 26

एवं स्तुत्वानिरुद्धस्तु तूष्णीमास खगेश्वर ।

तदनन्तरजः स्तोत्रं मनः स्वायंभुवोब्रवीत् ॥

३,७.२६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 27

स्वायंभुव उवाच ।

स्तोतुं ह्यनुप्रविशतोऽपि न गर्भदुःखं तस्मादहं परमपूज्यपदं गतस्ते ॥

३,७.२७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 28

मनोर्भार्या मानवी च यमः संयमिनीपतिः ।

दिशाभिमानी चन्द्रस्तु सूर्यश्चक्षुर्नियामकः ।

परस्परसमा ह्येते मुक्त्वा संसारमेव च ॥

३,७.२८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 29

प्रवाहाद्विगुणोनश्चेत्येवं जानीहि चाण्डज ।

सूर्यानन्तरजः स्तोतुं वरुणः सम्प्रचक्रमे ॥

३,७.२९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 298, Verse 30

वरुण उवाच ।

त्वद्विच्छया रचिते देहगेहे पुत्त्रे कलत्रेपि धने द्रव्यजातौ ।

ममाहमित्यल्पधिया च मूढा संसारदुःखे विनिमज्जन्ति सर्वे ॥

३,७.३० ॥