Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296

Containing 58 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 1

इति श्रीगारुडे महापुराणे उत्तरखण्डे कृष्ण गरुडसंवादे तृतीयांशे ब्रह्मकाण्डे गुणवैषम्यभेदब्रह्मदेहस्वरूपगुणसाम्यनिरूपणं नाम चतुर्थोऽध्यायः श्रीगरुडमहापुराणम्- ५ एतादृशे महत्तत्त्वे लक्ष्म्या सह हरिः स्वयम् ।

प्रविवेश महाभाग क्षोभयामास वै हरिः ॥

३,५.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 2

अहन्तत्त्वमभूत्तस्माज्ज्ञानद्रव्यक्रियात्मकम् ।

अहङ्कारसमुत्पत्तावेकांशस्तमसि स्मृतः ॥

३,५.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 3

तद्दशांशाधिकरजस्तद्दशांशाधिकं प्रभो ।

सत्त्वमित्युच्यते सद्भिर्ह्येतदात्मा त्वहं स्मृतम् ॥

३,५.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 4

अहन्तत्त्वाभिमानी तु आदौ शेषो बभूवह ।

सहस्राब्दाच्च पश्चात्तौ जातौ खगहरौ द्विज ॥

३,५.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 5

अहन्तत्त्वे खग ह्येषु प्रविष्टो हरिरव्ययः ।

क्षोभयामास भगवाल्लङ्क्ष्म्या सह हरिः स्वयम् ॥

३,५.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 6

वैकारिकस्तामसश्च तैजसश्चेत्यहं त्रिधा ।

त्रिधा बभूव रुद्रोऽपि यतस्तेषां नियामकः ॥

३,५.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 7

वैकारिकस्थितो रुद्रो वैकारिक इति स्मृतः ।

तामसे तु स्थितो रुद्रस्तामसो ह्यभिधीयते ॥

३,५.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 8

तैजसे तु स्थितो रुद्रो लोके वै तैजसः स्मृतः ।

तैजसे तु ह्यहन्तत्त्वे लक्ष्म्या सह हरिः स्वयम् ॥

३,५.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 9

विशित्वा क्षोभयामास तदासौ दशधा त्वभूत् ।

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ॥

३,५.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 10

वाक्पाणिपादं पायुश्च उपस्थेति दश स्मृताः ।

वैकारिके ह्यहन्तत्त्वे प्रविश्य क्षोभयद्धरिः ॥

३,५.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 11

महत्तत्त्वादिमा अदाविन्द्रियाणां च देवताः ।

एकादशविधा आसन्क्रमेण तु खगेश्वर ॥

३,५.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 12

मनोभिमानि नी ह्यादौ वारुणी त्वभवत्तदा ।

अनन्तरं च सौपर्णी गौरोजापि तथैव च ॥

३,५.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 13

शेषादनन्तरास्तासां दशवर्षादनंरम् ।

उत्पत्तिरिति विज्ञेयं क्रमेण तु खगेश्वर ॥

३,५.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 14

मनोभिमानिनावन्याविन्द्रकामौ प्रजज्ञतुः ।

तार्क्ष्य ह्यनन्तरौ ज्ञेयौ मुक्तौ संसार एव च ॥

३,५.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 15

ततस्त्वगात्मा ह्यभवत्सोऽहं कारिक ईरितः ।

ततः पाण्यात्मकाश्चैव जज्ञिरे पक्षिसत्तम ॥

३,५.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 16

शची रतिश्चानिरुद्धस्तथा स्वायंभुवो मनुः ।

बृहस्पतिस्तथा दक्ष एते पाण्यात्मकाः स्मृताः ॥

३,५.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 17

दक्षस्यानन्तरं जज्ञे प्रवाहो नाम चाण्डज ।

स एवोक्तश्चातिंवाहो यापयत्यात्मचोदितः ॥

३,५.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 18

हस्तादनन्तरं ज्ञेयो न तु शच्यादिवत्स्मृतः ।

ततोभवन्महाभाग चक्षुरिद्रियमात्मनः ॥

३,५.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 19

स्वायंभुवमनोर्भार्या शतरूपा यमस्तथा ।

चन्द्रसूर्यौ तु चत्त्वारश्चक्षुरिन्द्रियमानिनः ॥

३,५.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 20

चन्द्रः श्रोत्राभिमानीति तथा ज्ञेयः खगेश्वर ।

जिह्वेन्द्रियात्मा वरुणः सूर्यस्यानन्तरोभवत् ॥

३,५.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 21

वागिन्द्रियाभिमानिन्यो ह्यभवन्वरुणादनु ।

दक्षपत्नी प्रसूतिश्च भृगुरग्निस्तर्थव च ॥

३,५.२१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 22

तत्र वैते महात्मानो वागिन्द्रियनियामकाः ।

ये क्रव्यादादयश्चोक्तास्तेनन्तत्त्वनियामकाः ॥

३,५.२२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 23

साम्यत्वाच्च तथैवोक्तिर्न तु तत्त्वाभिमानितः ।

उपस्थमानिनो वीन्द्र बभूवुस्तदनन्तरम् ॥

३,५.२३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 24

विश्वामित्रो वसिष्टोत्रिर्मरीचिः पुलहः क्रतुः ।

पुलस्त्योङ्गिरसश्चैव तथा वैवस्वतो मनुः ॥

३,५.२४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 25

मन्वादयोनन्तसंख्या उपस्थात्मान ईरिताः ।

पायोश्च मानिनो वीन्द्र जज्ञिरे तदनन्तरम् ॥

३,५.२५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 26

सूर्येषु द्वादशस्वेको मित्रस्तारा गुरोः प्रिया ।

कोणाधिपो निरृतिश्च प्रवहप्रिया ॥

३,५.२६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 27

चत्त्वार एते पक्षीन्द्र वायुतत्त्वाभिमानिनः ।

घ्राणाभिमानिनः सर्वे जज्ञिरे द्विजसत्तम ॥

३,५.२७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 28

विष्ववसेनो वायुपुत्रौ ह्यश्विनौ गणपस्तथा ।

वित्तपः सप्त वसव उक्तो ह्याग्निस्तथाष्टमः ॥

३,५.२८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 29

सत्यानां श‍ृणु नामानि द्रोणः प्राणो ध्रुवस्तथा ।

अर्के दोषस्तथा वस्कः सप्तमस्तु विभावसुः ॥

३,५.२९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 296, Verse 30

दशरुद्रास्तथा ज्ञेया मूलरुद्रो भवः स्मृतः ।

दश रुद्रस्य नामानि श‍ृणुष्व द्विजसत्तम ॥

३,५.३० ॥