Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294

Containing 58 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 1

इति श्रीगारुडे महापुराणे कृष्णगरुडसंवादे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे ब्रह्माविष्णुमहेश्वरादिदेवतातारम्यनिरूपणं नाम द्वितीयोऽध्यायः श्रीगरुडमहापुराणम्- ३ श्रीकृष्ण उवाच ।

बभूवेच्छा मम देवस्य विष्णोः स्रष्टुं सृज्यान्मोक्षयोग्यांश्च मोक्तुम् ।

इच्छाशक्तिः सर्वदैवास्ति विष्णोस्तथापि तद्व्याहरणं च लौकिकम् ॥

३,३.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 2

तदा हरिर्जगृहे लौकिकं च तमः पानं तेन रूपेण चक्रे ।

तद्रूपमाहुः प्राकृतं वै तदज्ञा ह्यन्धं तमः प्रविशन्त्येव सर्वे ॥

३,३.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 3

अवतारा महाविष्णोः सर्वे पूर्णाः प्रकीर्तिताः ।

पूर्णं च तत्परं रूपं पूर्णात्पूर्णाः समुद्गताः ॥

३,३.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 4

परावरत्वं तेषां तु व्यक्तिमात्रविशेषतः ।

न देशकालसामर्थ्यात्पारावर्यं कथञ्चन ॥

३,३.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 5

पूर्वरूपं च पूर्णं च पूर्णं पदवितारगम्? ।

रूपं तदात्मन्यादाय पूर्णमेवावशिष्यते ॥

३,३.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 6

लौकिकव्यवहारोयं भूभारक्षपणादिकः ।

तस्य दृर्ष्टि विना नान्यो लयः कृष्णादिना क्वचित् ॥

३,३.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 7

तत्त्वे पीडा न कर्तव्या तया दुःखानि विन्दति ।

अत्यन्तपीडनात्तस्य रोगस्तस्य न संशयः ॥

३,३.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 8

ज्ञातव्यांशे तु पीडा तु कर्तव्या गुरुणा सह ।

तमन्तेवासिनं चाहुः स एव चु गुरुः स्मृतः ॥

३,३.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 9

ये कुर्वन्ति हरेस्तत्त्वविचारं तु परस्परम् ।

तावेव गुरुशिष्यौ तु विनतानन्दसंयुत ॥

३,३.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 10

गुरुणापि समं हास्यं कर्तव्यं कुटिलं विना ।

हर्षामर्षयुतः शिष्यो गुरुः कौटिल्यसंयुतः ॥

३,३.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 11

उभौ तौ निरयं यातो यावदाचन्द्रतारकम् ।

साक्षाद्धरिः पुरुषः पिङ्गलाक्षः स्वमायायां गुणमय्यां महात्मा ।

स्वपौरुषेणैव सुमङ्गलेन अधात्तु वीर्यं भगवान्वीर्यवांश्च ॥

३,३.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 12

गरुड उवाच ।

वीर्यस्वरूपं ब्रूहि मे वासुदेव वीर्ये त्वदीये संशयो मे विभाति ।

किं वीर्यमीशस्य स्वरूपभूतं किं वा विभिन्नं वद साधु वेत्सि ॥

३,३.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 13

श्रीकृष्ण उवाच ।

यद्वीर्यमाधत्त हरिः स्वयं प्रभुर्मायाभिधायां विनतातनूज ।

तद्वीर्यमाहुर्नृहरेः स्वरूपं विपश्चितो निश्चिततत्त्वदर्शिनः ॥

३,३.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 14

भिन्नं तदाहुः प्राकृतमेव चाहुः स्वनाभिपद्मादिकवच्च बोध्यम् ।

नैतावता ज्ञानरूपस्य विष्णोर्न वीर्यहानिरिति चिन्तनीयम् ॥

३,३.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 15

वीर्यस्वरूपी भगवान्वा सुदेवः सर्वत्र देशेपि च सर्वकाले ।

सर्वार्थवान्यदि न स्यात्खगेन्द्र तर्हीश्वरः पुरुषो नैव स स्यात् ॥

३,३.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 16

अचिन्त्यवीर्यैश्चिन्त्यवीर्यैर्द्विरूपः स्त्रीरूपमेकं पुरुषं तथा परम् ।

उभे रूपे वीर्यवती खगेन्द्र तयोरभेदश्चिन्तनीयो हि सम्यकू ॥

३,३.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 17

स्त्रीरूपवान्यदि न स्यात्खर्गेद्रस्त्रीणां कथं प्रतिबिंबत्वमेव ॥

३,३.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 18

स्त्रीरूपमस्माद्ब्रह्मजं (द्वास्तवं) चिन्तनीयं स्वरूपमेतन्नान्यथा चिन्तनीयम् ।

स्त्रीरूपवन्नैव विचिन्तनीयं नपुंसकं त्बस्य जन्यं हि विद्धि ॥

३,३.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 19

नपुंसकं नवैव स्वरूपभूतमतो हरौ नास्ति विचिन्तनीयम् ।

स्त्रीबिंबभूते हरिरूपे खगेन्द्र श्रीरूपमस्तीति विचिन्तनीयम् ॥

३,३.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 20

गरुड उवाच ।

स्त्रिया स्त्रियश्च संयोगं व्यर्थमहुर्मनीषिणः ।

स्त्रीरूपभूते विंबे तु स्त्रीरूपाः सन्ति सर्वदा ॥

३,३.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 21

स्थितौ तत्र निमित्तं च ब्रूहि कृष्ण मम प्रभो ॥

३,३.२१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 22

श्रीकृष्ण उवाच ।

स्त्रीबिंबभूतस्त्रीरूपे लक्ष्मीर्न स्यात्खगेश्वर ।

नित्यावियोगिनी देवी कथं स्यात्परमात्मनः ॥

३,३.२२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 23

हरेरनन्तरूपाणां स्त्रीरूपाणां खगेश्वर ।

अनन्तानन्तरूपेण नित्यं शुश्रूषणे रता ॥

३,३.२३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 24

अतो लक्ष्म्या वियोगस्तु शङ्कनीयः कथञ्चन ।

नारायणो नाम हरिः स्वतन्त्रः श्रिया विना नास्ति कदापि तार्क्ष्य ।

हरेर्मुकुन्दस्य पदारविन्दे शुश्रूषमाणा परमादरेण ॥

३,३.२४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 25

हरिं विना श्रीरपि देशकाले नास्तीति मोक्षेच्छुभिरेव वेद्यम् ।

यस्यामधाद्वीर्यमनुक्षणं च सा मामिका चेन्द्रजाला त्मिकेति ॥

३,३.२५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 26

वदन्ति ये असुरा मूढरूपा अधमतः प्रविशन्त्येव सर्वे ।

माया नाम प्रकृतिस्त्वेमाहुः सुसूक्ष्मरूपा न तु चेन्द्रजालिका ॥

३,३.२६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 27

तस्याभिमानः श्रीरिति वेदितव्यो वीर्याधानं तत्र तेषां च मेलः ।

कार्योन्मुखं मेलनं चाहुरार्या इतो रूपं नाहुराय्याश्च विष्णोः ॥

३,३.२७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 28

सानादि नित्या सत्यरूपा च विष्णोर्मिथ्या रूपा सा कथं स्यात्खगेन्द्र ।

सत्या तनुः प्रकृतेस्तन्निगूढा सत्यत्वमाहुर्व्यवहारार्थरूपम् ॥

३,३.२८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 29

व्यवहाररूपा सत्यता चेत्प्रकृत्यास्तदा कथं स्याद्यदनादिभूता ।

अनादिनित्या यदि न स्यात्खगेन्द्र सुशूक्ष्मरूपेण न कारणं स्यात् ॥

३,३.२९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 294, Verse 30

सूक्ष्मेण रूपेण च कारणं स्यात्तर्हि प्रपञ्चस्य च कारणं वद ।

अविद्याया वशतो विष्णुरेव नानारूपैर्दृश्यते विष्णुरेव ॥

३,३.३० ॥