उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 293, Verse 1
इति श्रीगारुडे महापुराणे सूतशौनकसंवादे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे सात्त्विकादिपुराणविभागनम्यानम्यदेवविभागादिविषयनिरूपणं नाम प्रथमोऽध्यायः श्रीगरुडमहापुराणम्- २ श्रीशौनक उवाच ।
कथं ससर्ज भगवांस्तत्तत्तत्त्वाभिमानिनः ।
सृष्टिक्रमं न जानामि देवानां ह्यन्तरं मुने ॥
३,२.१ ॥