Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292

Containing 90 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 1

इति श्रीगारुडे महापुराणे उत्तरखण्डे श्रीकृष्णगरुडसंवादे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे मोक्षोपायनिरूपणं नामैकोनपञ्चाशत्तमोऽध्यायः इति श्रीगारुडे महापुराणे द्वितीयो धर्मकाण्डः समाप्तः श्रीगरुडमहापुराणम् ३ श्रीगणेशाय नमः ।

श्रीलक्ष्मीनृसिंहाय नमः ।

श्रीदत्तात्रेयाय नमः ।

श्रीवेदव्यासाय नमः ।

श्रीहयग्रीवाय नमः ।

अथ गारुडे ब्रह्मकाण्डस्तृतीय आरभ्यते ।

ॐ मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान्गोपानां स्वजनोऽसतां क्षितिभृतां शास्ता स्वपित्रोः शिशुः ।

मृत्युर्भोजपतेर्विधातृविहित स्तत्त्वं परं योगिनां वृष्णीनां च पतिः सदैव शुशुभे रङ्गेऽच्युतः साग्रजः ॥

३,१.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 2

नमो नारायणायेति तस्मै वै मूलरूपिणे ।

नमस्कृत्य प्रवक्ष्यामि नारायणकथामिमाम् ॥

३,१.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 3

शौनकाद्या महात्मानो ह्यृषयो ब्रह्मवादिनः ।

नैमिषाख्ये महापुण्ये तपस्तेपुर्महत्तरम् ॥

३,१.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 4

जितेन्द्रिया जिताहाराः संतः सत्यपरायणाः ।

यजन्तः परया भक्त्या विष्णुमाद्यं जगद्गुरुम् ॥

३,१.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 5

गृणन्तः परमं ब्रह्म जगच्चक्षुर्महौजसः ।

सर्वशास्त्रार्थतत्त्वज्ञास्तेपुर्नैमिष कानने ॥

३,१.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 6

यज्ञैर्यज्ञपतिं केचिज्ज्ञानैर्ज्ञानात्मकं परम् ।

केचित्परमया भक्त्या नारायणमपूजयन् ॥

३,१.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 7

एकदा तु महात्मानः समाजं चक्रुरुत्तमाः ।

धर्मार्थकाममोक्षाणामुपायं ज्ञातुमिच्छवः ॥

३,१.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 8

षद्विंशतिसहस्राणि मुनीनामूर्ध्वरेतसाम् ।

तेषां शिष्यप्रशिष्याणां संख्या वक्तुं न शङ्क्यते ॥

३,१.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 9

मुनयो भावितात्मानो मिलितास्ते महोजसः ।

लोकानुग्रहकर्तारो वीतरागा विमत्सराः ॥

३,१.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 10

कथं हरौ मनुष्याणां भक्तिरव्यभिचारिणी ।

केन सिध्येत्तु सकलं कर्म त्रिविधमात्मनः ॥

३,१.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 11

इत्येवं प्रष्टुमात्मानमुद्यतान्प्रेक्ष्य शौनकः ।

सांज लिर्वाक्यमाह स्म विनयावनतः सुधीः ॥

३,१.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 12

शौनक उवाच ।

आस्ते सिद्धाश्रमे पुण्ये सूतः पौराणिकोत्तमः ।

स एतदखिलं वेत्ति व्यासशिष्यो यतीश्वरः ॥

३,१.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 13

तस्मात्तमेव पृच्छाम इत्येवं शौनको मुनिः ।

अथ ते ऋषयो जग्मुः पुण्यं सिद्धाश्रमं ततः ॥

३,१.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 14

पप्रच्छुस्ते सुखासीनं नैमिषारण्यवासिनः ।

ऋषय ऊचुः ।

वयं त्वतिथयः प्राप्तास्त्वातिथेयोऽसि सुव्रत ॥

३,१.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 15

स्नानदानोपचारेण पूजयित्वा यथाविधि ।

केन विष्णुः प्रसन्नः स्यात्स कथं पूज्यते नरैः ॥

३,१.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 16

मुक्तिसाधनभूतं च ब्रूहि तत्त्वविनिर्णयम् ।

सूत उवाच ।

श‍ृणुध्वमृष्यः सर्वे हरिं तत्त्वविनिर्णयम् ॥

३,१.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 17

नत्वा विष्णुं श्रियं वायुं भारतीं शेषसंज्ञकम् ।

द्वैपायनं गुरुं कृष्णं प्रवक्ष्यामि यथामति ॥

३,१.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 18

नास्ति नारायणसमं न भूतं न भविष्यति ।

एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम् ॥

३,१.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 19

शौनक उवाच ।

किमर्थं नमनं विष्णोर्ग्रन्थादौ मुनिसत्तम ।

कर्तव्यं ब्रूहि मे ब्रह्मन्कृपया मम सुव्रत ॥

३,१.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 20

ततः श्रियं ततो वायुं भारतीं च ततः परम् ।

अन्ते व्यासं किमर्थं च त्वं नमस्कृतवानसि ।

सूतसूत महाभाग ब्रूहि कारणमत्र च ॥

३,१.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 21

सूत उवाच ।

आदौ वन्द्यः सर्ववेदैकवेद्यो वेदे शास्त्रे सेतिहासे पुराणे ।

सत्तां प्रायो विष्णुरेवैक एव प्रकाशतेऽतो नम्य एको हरिर्हि ॥

३,१.२१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 22

सर्वत्र मुख्यस्त्वधिकोन्यतोऽपि स एव नम्यो न च शङ्कराद्याः ।

नमन्ति येऽविनयाच्छङ्करं तु विनायकं चण्डिकां रेणुकां च ॥

३,१.२२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 23

तथा सूर्यं भैरवं मातारश्व तथा वाणीं गिरिजां वै श्रियं च ।

सर्वेपि ते वैष्णवा नैव लोके न तद्भक्ता वेति चार्या वदन्ति ॥

३,१.२३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 24

न पार्थिक्यान्नमनं कार्यमेव प्रीणन्ति नैता देवताः पूजनेन ।

पूजां गृहीत्वा देवताश्चैव सर्वाः किञ्चिद्दत्वा फलदानेन तांश्च ॥

३,१.२४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 25

संतर्प्य तुष्टैः स्वमनोनु सारात्तैः कारितां काम्यपूजां तथैव ।

निवेदयित्वा परदेवतायां विष्णौ हरौ श्रीपुरुषादिवन्द्ये ॥

३,१.२५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 26

इहापरत्रापि सुखेतराणि दास्यन्ति पश्चादधरं वै तमश्च ।

अतो ह्येते नैव पूज्या न नम्या मोक्षेच्छुभिर्ब्राह्मणाद्यैर्द्विजेन्द्र ॥

३,१.२६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 27

तथैव सर्वाश्रमिभिश्च नित्यं महाविपत्तावपि विप्रवर्याः ।

श्रीकाम्य या ये तु भजन्ति नित्यं श्रीब्रह्मरुद्रेद्रयमादिदेवान् ॥

३,१.२७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 28

इहेव भुञ्जन्ति महच्च दुःखं महापदः कुष्ठभगन्दरादीन् ।

नमन्ति येऽवैष्णवान्ब्रह्मरुद्रवायु प्रतीकान्नैव ते विष्णुभक्ताः ॥

३,१.२८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 29

अभिप्रायं त्वत्र वक्ष्ये मुनीन्द्राः परं गोप्यं हृदि धार्यं हि तद्धि ।

वायोः प्रतीकं पूज्यमेवेह विप्रा न ब्रह्मरुद्रादिप्रतीकमेव ॥

३,१.२९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 292, Verse 30

पूजाकाले देवदेवस्य विष्णोर्वायोः प्रतीकं योग्यभागे निधाय ।

अन्तर्गतं तस्य वायोर्हरिं च लक्ष्मीपतिं पूजयित्वा हि सम्यक् ॥

३,१.३० ॥