उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 290, Verse 1
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे मनुष्यस्य सुखदुःखप्रापकधर्माधर्मनिरूपणं नामाष्टचत्वारिंशत्तमोऽध्यायः श्रीगरुडमहापुराणम्- ४९ गरुड उवाच ।
श्रुता मया दयासिन्धो ह्यज्ञानाज्जीवसंसृतिः ।
अधुना श्रोतुमिच्छामि मोक्षोपायं सनातनम् ॥
२,४९.१ ॥