पूर्वखण्डः (आचारकाण्डः), अध्याय 29, Verse 1
मुकुटं वलमालां च ऐन्द्राद्यान्ध्वजमुख्यकान् ।
कुमुदाद्यान्विष्वक्सेनं श्रिया कृष्णं सहार्चयेत् ।
जप्याद्ध्यानात्पूजनाच्च सर्वान्कामानवान्पुयात् ।
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीगोपालपूजानिरूपणं नामाष्टाविंशोऽध्यायः श्रीगरुडमहापुराणम्- २९ हरिरुवाच ।
त्रैलोक्यमोहिनीं वक्ष्ये पुरुषोत्तममुख्यकाम् ।
पूजामन्त्राञ्छ्रीधराद्यान्धर्मकामादिदायकान् ॥
१,२९.१ ॥