Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288

Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 1

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे जीवस्य शुभाशुभगतिनिरूपणं नाम षट्चत्वारिंशोध्यायः श्रीगरुडमहापुराणम्- ४७ गरुड उवाच ।

भगवन्देवदेवेश कृपया परया वद ।

दानं दानस्य माहात्म्यं वैतरण्याः प्रमाणकम् ॥

२,४७.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 2

श्रीकृष्ण उवाच ।

या सा वैतरणी नाम यममार्गे महासरित् ।

अगाधा दुस्तरा पापैर्दृष्टमात्रा भयावहा ॥

२,४७.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 3

पूयशोणिततोयाढ्या मांसकर्दमसकुंला ।

पापिनञ्चागतान्दृष्ट्वा नानाभयसमावृता ॥

२,४७.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 4

क्वाथ्यते सत्वरं तोयं पात्रमध्ये घृतं यथा ।

क्रिमिभिः सङ्कुलं पूयं वज्रतुण्डैः समावृतम् ॥

२,४७.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 5

शिशुमारैश्च मकरैर्वज्रकर्तरिकायुतैः ।

अन्यैश्च जलजीवैश्च हिंसकैर्मांसभेदिभिः ॥

२,४७.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 6

उद्यान्ति द्वादशादित्याः प्रलयान्ते तथा हि ते ।

तपन्ति तत्र वै मर्त्याः क्रन्द मानास्तु पापिनः ॥

२,४७.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 7

हा भ्रातः पुत्र तातेति प्रलपन्ति मुहुर्मुहुः ।

विचरन्ति निमज्जन्ति ग्लानिं गच्छन्ति जन्तवः ॥

२,४७.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 8

चतुर्विधैः प्राणिगणैर्दृष्टा व्याप्ता महानदी ।

तरन्ति गोप्रदानेन त्वन्यथा च पतन्ति ते ॥

२,४७.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 9

मां नरा येऽवमन्यन्ते चाचार्यं गुरुमेव च ।

वृद्धानन्यांश्चापि मूढास्तेषां वासस्तु तत्र वै ॥

२,४७.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 10

पतिव्रतां साधुशीलामूढां धर्मेषु निश्चलाम् ।

परित्यजन्ति ये मूढास्तेषां वासस्तु सन्ततम् ॥

२,४७.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 11

विश्वासप्रतिपन्नानां स्वामिमित्रतपस्विनाम् ।

स्त्रीबालविकलादीनां वधं कृत्वा पतन्ति हि ।

पच्यन्ते तत्र मध्ये तु क्रन्दमानास्तु पापिनः ॥

२,४७.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 12

शान्तं बुभुक्षितं विप्रंयो विघ्नायोपसर्पति ।

क्रिमिभिर्भक्ष्यते तत्र यावदाभूतसम्प्लवम् ॥

२,४७.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 13

ब्राह्मणाय प्रतीश्रुत्य यमार्थं न ददाति तम् ।

आहूय नास्ति यो ब्रूयात्तस्य वासस्तु तत्र वै ॥

२,४७.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 14

अग्निदो गरदश्चैव कूटसाक्षी च मद्यपः ।

यज्ञविध्वंसकश्चैव राज्ञीगामी च पैशुनः ॥

२,४७.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 15

कथाभङ्गकरश्चैव स्वयन्दत्ता पहारकः ।

क्षेत्रसेतुविभेदी च परदारप्रधर्षकः ॥

२,४७.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 16

ब्राह्मणो रसविक्रेता तथा यो वृषलीपतिः ।

गोधनस्य तृषार्तस्य वाप्या भेदं करोति यः ॥

२,४७.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 17

कन्याविदूषकश्चैव दानं दत्त्वानुतापकः ।

शूबद्रस्तु कपिलापायी ब्राह्मणो मांसभोजनः ॥

२,४७.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 18

एते वसन्ति सततं मा विचारं कृथाः क्वचित् ।

कृपणो नास्तिकः क्षुद्रः स तस्यां निवसेत्खग ॥

२,४७.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 19

सदामर्षो सदा क्रोधी निजवाक्यप्रमाणकृत् ।

परोक्त्युच्छेदको नित्यं वैतरण्या वसेच्चिरम् ॥

२,४७.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 20

यस्त्वहङ्कारवान्पापी स्वविकत्थनकारकः ।

कृतघ्नो गर्भसन्तापी वैतरण्यां स मज्जति ॥

२,४७.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 21

कदापि भाग्ययोगेन तरणेच्छा भवेद्यदि ।

सानुकूला भवेद्येन तदाकर्णय काश्यप ॥

२,४७.२१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 22

अयने विषुवे पुण्ये व्यतीपाते दिनोदये ।

चन्द्रसूर्योपरागे वा संक्रान्तौ दर्शवासरे ॥

२,४७.२२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 23

अन्येषु पुण्यकालेषु दीयते दानमुत्तमम् ।

यदा तदा भवेद्वापि श्राद्धा दानं प्रति ध्रुवम् ॥

२,४७.२३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 24

तदैब दानकालः स्याद्यतः सम्पत्तिरस्थिरा ।

अनित्यानि शरीराणि विभवो नैव शाश्वतः ॥

२,४७.२४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 25

नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसंगहः ।

कृष्णां वा पाटलां वापि कुर्याद्वैतरणीं शुभाम् ॥

२,४७.२५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 26

स्वर्णश‍ृङ्गीं रौप्यखुरां कांस्यपात्रोपदोहनीम् ।

कृष्णवस्त्रयुगाच्छन्नां सप्तधान्यसमन्विताम् ॥

२,४७.२६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 27

कार्पासद्रोणशिखरे आसीनं ताम्रभाजने ।

यमं हैमं प्रकुर्वीत लोहदण्डसमन्वितम् ।

इक्षुदण्डमयं बद्ध्वा प्लवं सुदृढबन्धनैः ॥

२,४७.२७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 28

उडुपोपरि तां धेनुं सूर्यदेहसमुद्भवाम् ।

कृत्वा प्रकल्पयेद्विप्रश्छत्रोपानहसंयुतम् ॥

२,४७.२८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 29

अङ्गुलीयकवासांसि ब्राह्मणाय निवेदयेत् ।

इममुच्चारयेन्मन्त्रं संगृह्य सजलान्कुशान् ॥

२,४७.२९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 288, Verse 30

यमद्वारे महाघोरे श्रुत्वा वैतरणीं तदीम् ।

तर्तुकामो ददाम्येनां तुभ्यं वैतरणीं नमः ॥

२,४७.३० ॥