Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286

Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 1

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशाख्ये धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे दुर्मरणे कार्याकार्यक्रियादिनिरूपणं नाम चतुश्चत्वारिंशोऽध्यायः श्रीगरुडमहापुराणम्- ४५ श्रीविष्णुरुवाच ।

प्रत्यब्दं श्राद्धमेवं ते कथयामि खगेश्वर ।

प्रत्यब्दं पार्वणेनैव कुर्यातां क्षेत्रजोरसौ ॥

२,४५.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 2

विधिनाचेतरैरेवमेकोद्दिष्टं न पार्वणम् ॥

२,४५.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 3

अनग्नेश्च सुतौ स्यातामनग्नी क्षेत्रजोरसौ ।

एकोद्दिष्टं न कुर्यातां प्रत्यब्दं तौ तु पार्वणम् ॥

२,४५.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 4

यदा त्वन्यतरः साग्निः पुत्रो वाप्यथवा पिता ।

प्रत्यब्दं पार्वणं तत्र कुर्यातां क्षेत्रजौरसौ ॥

२,४५.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 5

अनग्नयः साग्नयो वा पुत्रा वा पितरोऽपि वा ।

एकोद्दिष्टं सुतैः कार्यं क्षयाह इति केचन ॥

२,४५.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 6

दर्शकाले क्षयो यस्य प्रेतपक्षेऽथ वा पुनः ।

प्रत्यब्दं पार्वणं कार्यं तस्य सर्वैः सुतैरपि ॥

२,४५.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 7

एकोद्दिष्टमपुत्राणां पुंसां स्याद्योपितामपि ।

एकोद्दिष्टे कुशा ग्राह्याः समूला यज्ञकर्मणि ।

बहिर्लूनाः सकृल्लनाः श्राद्धं वृद्धिमृते सदा ॥

२,४५.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 8

कर्तव्ये पार्वणे श्राद्धे आशौचं यदि जायते ।

आशौचावगमे कुर्याच्छ्राद्धं हि तदनन्तरम् ॥

२,४५.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 9

एकोद्दिष्टे तु सम्प्राप्ते यदि विघ्नः प्रजायते ।

मासेन्यस्मिन्तिथौ तस्यां कुर्याच्छ्राद्धं तदैव हि ॥

२,४५.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 10

तूष्णीं श्राद्धान्तु शूद्रस्य भार्यायास्तत्सुतस्य च ।

कन्यायाश्च द्विजातीनामनुपेतद्विजस्य च ॥

२,४५.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 11

एककाले गता सूनां बहूनामथ वा द्वयोः ।

तन्त्रेण श्रपणं कुर्याच्छ्राद्धं कुर्यात्पृथक्पृथक् ॥

२,४५.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 12

दद्यात्पूर्वं मृतस्यादौ द्वितीयस्य ततः पुनः ।

तृतीयस्य ततः कुर्यात्संनिपाते त्वयं विधिः (क्रमः) ॥

२,४५.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 13

प्रत्यब्दमेवं यः कुर्याद्यथातथमतन्द्रितः ।

तारयित्वा पितॄन्सर्वान्प्राप्नोति परमां गतिम् ॥

२,४५.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 14

न ज्ञायते मृताहश्चेत्प्रस्थानदिनमेव च ।

मासश्चेत्स्यात्परिज्ञातस्तद्दर्शे स्यान्मृताहिकम् ॥

२,४५.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 15

यदा मासो न विज्ञातो विज्ञातं दिनमेव च ।

तदा मार्गशिरे मासि माघे वा तद्दिनं भवेत् ॥

२,४५.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 16

दिनमासावविज्ञातौ मरणस्य यदा पुनः ।

प्रस्थानदिनमासौ तु ग्राह्यौ श्राद्धे मयोदितौ ॥

२,४५.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 17

प्रस्थानस्यापि न ज्ञातौ दिनमासौ यदा पुनः ।

मृतवार्ताश्रुतौ ग्राह्यौ पूर्वप्रोक्तक्रमेण तु ॥

२,४५.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 18

प्रवासमन्तरेणापि स्यातां तौ विस्मृतौ यदा ।

तदानीमपि तौ ग्राह्यौ पूर्ववत्तु मृताहिके ॥

२,४५.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 19

गृहस्थे प्रोषिते यच्च कश्चित्तु म्रियते गृहे ।

आसौचापगमे यत्र प्रारब्धे श्राद्धकर्मणि ॥

२,४५.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 20

प्रत्यागतश्चेज्जानाति तत्र वृत्तं गृही तथा ।

आशौचं गृहिणस्तेषां न द्रव्यादेस्तदा भवेत् ॥

२,४५.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 21

पुत्रादिना यदारब्धं श्राद्धं तत्त्वेन वाखिलम् ।

समापनीयं तत्रापि श्राद्धं गृहीतु दूरतः ॥

२,४५.२१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 22

दात्रा बोक्त्रा च न ज्ञातं सूतकं मृतकं तथा ।

उभयोरपि तद्दोषं नारोपयति कर्हिचित् ॥

२,४५.२२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 23

यदा त्वन्यतरज्ञातं सूतकं मृतकं तथा ।

भोक्तुरेव तदा दोषो नान्यो दाता प्रदुष्यति ॥

२,४५.२३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 24

इत्युक्तेन प्रकारेण यः कुर्यान्मृतवासरम् ।

अविज्ञातमृताहस्य सततं तारयत्यसौ ॥

२,४५.२४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 25

नित्यश्राद्धेऽथ गन्धाद्यैर्द्विजानभ्यर्च्य भक्तितः ।

सर्वान्पितृगणान्सम्यक्सहैवोद्दिश्य योजयेत् ॥

२,४५.२५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 26

आवाहनं स्वधाकारो पिण्डाग्नौकरणादिकम् ।

ब्रह्मचर्यादिनियमा विश्वदेवास्तथैव च ॥

२,४५.२६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 27

नित्यश्राद्धे त्यजेदेतान्भोज्यमन्नं प्रकल्पयेत् ।

दत्त्वा तु दक्षिणां शक्त्या नमस्कारैर्विसर्जयेत् ॥

२,४५.२७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 28

देवानुद्दिश्य विश्वादीन्यद्दद्याद्द्विजभोजनम् ।

तन्नित्यश्राद्धवत्कार्यं देवश्राद्धं तदुच्यते ॥

२,४५.२८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 29

मातृश्राद्धन्तु पूर्वेण कर्मादौ पैतृकं तथा ।

उत्तरेऽहनि वृद्धौ स्यान्मातामहगणस्य तु ॥

२,४५.२९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 286, Verse 30

श्राद्धत्रयं प्रकुर्र्वीत वैश्वदेवन्तुतान्त्रिकम् ॥

२,४५.३० ॥