Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285

Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 1

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे शुद्धिनिरूपणं नाम त्रिचत्वारिंशोऽध्यायः श्रीगरुडमहापुराणम्- ४४ श्रीविष्णुरुवाच ।

स्वेच्छया तार्क्ष्य मरणं श‍ृङ्गिदंष्ट्रिसरीसृपः ।

चाण्डालाद्यात्मघातैश्च विषाद्यैस्ताडनैस्तथा ॥

२,४४.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 2

जलाग्निपातवातैश्च निराहारादिभिस्तथा ।

येषामेव भवेन्मृत्युः प्रोक्तास्ते पापकर्मिणः ॥

२,४४.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 3

पाषड्यनाश्रमाश्चैव महापातकिनस्तथा ।

स्त्रियश्च व्यभिचारिण्य आरूढपतितास्तथा ॥

२,४४.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 4

न तेषां स्यान्नव श्राद्धं न संस्कारः सपिण्डनम् ।

श्राद्धानि षोडशोक्तानि न भवन्ति च तान्यपि ॥

२,४४.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 5

वेतनं यत्क्षिपेदप्सु गृह्याग्निश्च चतुष्पथे ।

पात्राणिनिर्दहेदग्नौ साग्निके पापकर्मणि ॥

२,४४.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 6

पूर्णे संवत्सरे तेषामित्थं कार्यं दयालुभिः ।

एकादशीं समासाद्य शुक्लपक्षे च काश्यप ॥

२,४४.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 7

विष्णुं यमं च सम्पूज्य गन्धपुष्पाक्षतादिभिः ।

दश पिण्डान्घृताक्तांश्च दर्भेषु मधुसंयुतान् ॥

२,४४.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 8

यज्ञोपवीति सतिलान्ध्यायन्विष्णुं यमं तथा ।

दक्षिणाभिमुखस्तूष्णीमेकैकं निर्वपेत्तुतान् ॥

२,४४.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 9

उद्धृत्य मिश्रितान्पश्चात्तीर्थेऽभ्मः सु विनिः क्षिपेत् ।

क्षिपन्संकीर्तयेन्नाम गोत्रं च मृतकस्य च ॥

२,४४.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 10

पुनरप्यर्चयेद्विष्णुं यमं कुसुमचन्दनैः ।

धूपदीपैः सनैवेद्यैर्भक्ष्यभोज्यसमन्वितैः ॥

२,४४.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 11

तस्मिन्नुपवसेदह्नि विप्रांश्चेव निमन्त्रयेत् ।

कुलविद्यातपोयुक्तान्साधुशीलसमन्वितान् ॥

२,४४.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 12

नव सप्ताथवा पञ्च स्वसामर्थ्यानुसारतः ।

अपरेऽहनि मध्याह्ने यमं विष्णुं तथार्चयेत् ॥

२,४४.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 13

उदङ्मुखांस्तथा विप्रांस्तान्सम्यगुपवेशयेत् ।

आवाहनार्घदानादौ विष्णुं यमसमन्वितम् ॥

२,४४.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 14

यज्ञोपवीती कुर्वीत प्रेतनाम प्रकीर्तयेत् ।

प्रेतं यमं च विष्णुं च स्मरन्श्राद्धं समापयेत् ॥

२,४४.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 15

अन्येभ्यश्चापि सर्वेभ्यः पिण्डदानार्थमुद्धरेत् ।

पृथग्वा दश पिण्डांश्च पञ्च दद्यात्क्रमेण तु ॥

२,४४.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 16

प्रथमं विष्णवे दद्याद्ब्रह्मणे च शिवाय च ।

सभृत्याय शिवायाथ प्रेतायापि च पञ्चमम् ॥

२,४४.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 17

नाम गोत्रं स्मरेत्तस्य विष्णुशब्दं प्रकीर्तयेत् ।

नमस्कारशिरस्कन्तु पञ्चमं पिण्डमुद्धरेत् ॥

२,४४.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 18

गोभूमिपिण्डदानाद्यैः शक्त्या प्रेतं स्मरंश्च तम् ।

तिलैस्तिलांस्तु विप्राणां दर्भयुक्तेषु पाणिषु ॥

२,४४.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 19

दद्यादन्नं द्विजानां च ताम्बूलं दक्षिणां तथा ।

एवं शिष्टतमं विप्रं हरिण्येन प्रपूजयेत् ॥

२,४४.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 20

नाम गोत्रं स्मरन्दद्याद्विष्णुप्रीतोस्त्विति ब्रुवन् ।

अनुव्रज्य द्विजान्पश्चात्त्यक्ताम्भो दक्षिणामुखः ॥

२,४४.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 21

कीर्तयन्नामगोत्रे तु भुवि प्रीतोस्त्विति क्षिपेत् ।

मित्रबन्धुजनैः सार्धं शेषं भुञ्जीत वाग्यतः ।

प्रतिसंवत्सरादि स्यादेकोद्दिष्टविधानतः ॥

२,४४.२१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 22

एवं कृते गमिष्यन्ति स्वर्लोकं पापकर्मिणः ।

सपिण्डीकरणादौ तु कृते चैवाप्नुवन्तिते ॥

२,४४.२२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 23

अथ कश्चित्प्रमादेन म्रियते ह्युदकादिभिः ।

संसारप्रमुखस्तस्य सर्वं कुर्याद्यथाविधि ॥

२,४४.२३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 24

प्रमादादिच्छया मर्त्यो न गच्छेत्सर्पसमुखः ।

पक्षयोरुभयोर्नागं पञ्चमीषु प्रपूजयेत् ॥

२,४४.२४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 25

कुर्यात्पिष्टमयीं लेखां नागानामाकृतिं भुवि ।

अर्चयेत्तां सितैः पुष्पैः सुगन्धैश्चन्दनेनच ॥

२,४४.२५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 26

प्रदद्याद्धूपदीपन्तु तण्डुलांश्च सितान्क्षिपेत् ।

आमपिष्टं तथैवान्नं क्षीरञ्च विनिवेदयेत् ॥

२,४४.२६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 27

उपस्थाय वदेदेवं मुञ्चन्मुद्रांशुकानि च ।

मधुरं तद्दिनेऽश्रीयाद्देवश्राद्धं समापयेत् ॥

२,४४.२७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 28

सौवर्णं शक्तितो नागं ततो दद्याद्द्विजोत्तमे ।

धेनुं दत्त्वा ततो ब्रूयात्प्रीयतां नागराडिति ॥

२,४४.२८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 285, Verse 29

यथाविभव्यं कुर्वीत कर्माण्यन्यानि पूर्ववत् ।

स्वशाखोक्तविधानेन इत्थं कुर्याद्यथातथम् ।

प्रेतत्वान्मोचयेत्तांस्तु स्वर्गमार्गं नयेत्च ॥

२,४४.२९ ॥