Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 284

Containing 5 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 284, Verse 1

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे भूदानादिनिरूपणं नाम द्विचत्वारिंशतमोऽध्यायः श्रीगरुडमहापुराणम्- ४३ श्रीविष्णुरुवाच ।

जलाग्निबन्धनभ्रष्टा प्रव्रज्यानाशकच्युताः ।

ऐन्दवाभ्यां विशुध्यन्ति दत्त्वा धेनुं तथा वृषम् ॥

२,४३.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 284, Verse 2

ऊनद्वादशवर्षस्य चतुर्वर्षाधिकस्य च ।

प्रायश्चित्तं चरेन्माता पिता वान्योऽपि बान्धवः ॥

२,४३.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 284, Verse 3

अतो बालनरस्यापि नापराधो न पातकम् ।

राजदण्डो न तस्यास्ति प्रायश्चित्तं न विद्यते ॥

२,४३.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 284, Verse 4

रक्तस्य दर्शने दष्टे आतुरा स्त्री भवेद्यदि ।

चतुर्थेऽह्नि पदादींश्च त्यक्त्वा स्नात्वा विशुध्यति ॥

२,४३.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 284, Verse 5

आतुरे स्नान उत्पन्ने दशकृत्वो ह्यनातुरः ।

स्नात्वास्नात्वास्पृशेदेनं ततः शुध्येत्स आतुरः ॥

२,४३.५ ॥