Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 280

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 280, Verse 1

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे उत्तमलोकगत्यागतिमोक्षमानुष्यहेतुनिरूपणं नामाष्टात्रिंशत्तमोऽध्यायः श्रीगरुडमहापुराणम्- ३९ तार्क्ष्य उवाच ।

सूतकानां विधिं ब्रूहि दयां कृत्वा मयिप्रभो ।

विवेकाय हि चित्तस्य मानवानां हिताय च ॥

२,३९.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 280, Verse 2

श्रीकृष्ण उवाच ।

मृते जन्मनी पक्षीन्द्र सूतकं स्याच्चतुर्विधम् ।

चतुर्णामपि वर्णानां सामान्यते विवर्जितम् ॥

२,३९.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 280, Verse 3

उभयत्र दशाहानि कुलस्यान्नं विवर्जियेत् ।

दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते ॥

२,३९.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 280, Verse 4

देशं कालं तथात्मानं द्रव्यं द्रव्यप्रयाजनम् ।

उपपत्तिंव्मवस्थाञ्च ज्ञात्वां कर्म समाचरेत् ॥

२,३९.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 280, Verse 5

गुहावह्निप्रवेसे च देशान्तरमृतेषु च ।

स्नानं सचेलं कर्तव्यं सद्यः शौचं विधीयते ॥

२,३९.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 280, Verse 6

आमगर्भाश्च ये जीवा ये च गर्भाद्विनिः सृताः ।

न तेषामग्निसंस्कारो नाशौचं नोदकक्रिया ॥

२,३९.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 280, Verse 7

शिल्पिनः कारवो वैद्या दासीदासास्तथैव च ।

राजानः श्रोतियाश्चैव सद्यः शौचाः प्रकीर्तिताः ॥

२,३९.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 280, Verse 8

सत्री च (व्रती) मन्त्रपूतश्च आहिताग्निर्नृपस्तथा ।

एतेषां सूतकं नास्ति यस्य चेच्छन्ति पार्थिवाः ॥

२,३९.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 280, Verse 9

प्रसवे च सपिण्डानां न कुर्यात्सङ्करं द्विजः ।

दशाहाच्छ्रुध्यते माता अवगाह्य पिता शुचिः ॥

२,३९.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 280, Verse 10

विवाहोत्सवयज्ञेषु अन्तरा मृतसूतके ।

पूर्वसङ्कल्पितं वित्तं भोज्यं तन्मनुरब्रवीत् ॥

२,३९.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 280, Verse 11

सर्वेषामेवमाशौचं मातापित्रोस्तु सूतकम् ।

सूकतं मातुरेवस्यादुपस्पृश्य पिता शुचिः ॥

२,३९.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 280, Verse 12

अन्तर्दशाहे स्याताञ्चेत्पुनर्मरणजन्मनी ।

तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम् ॥

२,३९.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 280, Verse 13

उदिते नियमे दाने आर्ते विप्रे निवेदयेत् ।

तथैव ऋषिभिः प्रोक्तं यथाकालं न दुष्यति ॥

२,३९.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 280, Verse 14

मृन्मयेन तु पात्रेण तिलैर्मिश्रजलैः सह ।

मृत्तिकया तथान्ते च नरः स्नात्वा शुचिर्भवेत् ॥

२,३९.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 280, Verse 15

दानं परिषदे दद्यात्सुवर्णं गोवृषं द्विजे ।

क्षत्रियो द्विगुणं चैव वैश्यस्तु त्रिगुणं तथा ॥

२,३९.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 280, Verse 16

चतुर्गुणन्तु शूद्रेण दातव्यं ब्राह्मणे धनम् ।

एव मनुक्रमेणैव चातुर्वर्ण्यं विशुध्यति ॥

२,३९.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 280, Verse 17

सप्ताष्टमान्तरै शीर्णे गृह्यसंस्कारवर्जिते ।

अहस्तु सूतकं तस्य त्वब्दानां संख्यया स्मृतम् ॥

२,३९.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 280, Verse 18

ब्राह्मणार्थे विपन्ना ये नारीणां गोग्रहेषु च ।

आहवेषु विपन्नानामेकरात्त्रमशौचकम् ॥

२,३९.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 280, Verse 19

न तेषामशुभं किञ्चिद्विप्राणां शुभकर्मणि ।

अनाथप्रेतसंस्कारं ये कुर्वन्तु नरोत्तमः ॥

२,३९.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 280, Verse 20

न तेषामशुभङ्किञ्चिद्विप्रेण सहकारिणा ।

जलावगाहनात्तेषां सद्यः शुद्धिरुदाहृता ॥

२,३९.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 280, Verse 21

विनिवृत्ता यदा शूद्रा उदकान्तमुपस्थिताः ।

तदाविप्रेणद्रष्टव्या इति वेदविदोविदुः ॥

२,३९.२१ ॥