पूर्वखण्डः (आचारकाण्डः), अध्याय 28, Verse 2
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नागादिविविधविषहर मन्त्रनिरूपणं नाम सप्तविंशोऽध्यायः श्रीगरुडमहापुराणम्- २८ सूत उवाच ।
गोपालपूजां वक्ष्यामि भुक्तिमुक्तिप्रदायिनीम् ।
द्वारे धाता विधाता च गङ्गायमुनया सह ॥
१,२८.१ ।
शङ्खपद्मनिधी चैव सारङ्गः शरभः श्रिया ।
पूर्वे भद्रः सुभद्रो द्वौ दक्षे चण्डप्रचण्डकौ ॥
१,२८.२ ॥