Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279

Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 1

इति श्रीगारुडे महापुराणे द्वितीयांशे प्रेतकल्पे धर्मकाण्डे सोदकुम्भश्राद्धनिरूपणं नाम सप्तत्रिंशोऽध्यायः श्रीगरुडमहापुराणम्- ३८ तार्क्ष्य उवाच ।

दानतीर्थार्थितं मोक्षं स्वर्गञ्च वद मे प्रभो ।

केन मोक्षमवाप्नोति केन स्वर्गे वसेच्चिरम् ॥

२,३८.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 2

केन गच्छति तेजस्तु स्वर्लोकात्सत्यलोकतः ।

मानुष्यं केन लभते नरकेशु निमज्जति ॥

२,३८.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 3

एतन्मे वदनिश्चित्य भक्तानां मोक्षदायक ।

ब्रूहि कस्मिन्मृते स्वर्गे पुनर्जन्म न विद्यते ॥

२,३८.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 4

श्रीविष्णुरुवाच ।

मानुष्यं भारते वर्षे त्रयोदशसु जातिषु ॥

२,३८.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 5

तत्प्राप्य म्रियते क्षेत्रे पुनर्जन्म न विद्यते ।

अयोध्या मथुरा माया काशी काञ्ची अवन्तिका ॥

२,३८.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 6

पुरी द्वारवती ज्ञेया सप्तैता मोक्षदायिकाः ।

सन्न्यस्तमिति यो ब्रुयात्प्राणैः कण्ठगतैरपि ॥

२,३८.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 7

मृतो विष्णुपुरं याति न पुनर्जायते क्षितौ ।

सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ॥

२,३८.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 8

बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ।

कृष्णकृष्णेति कृष्णेति यो मां स्मरति नित्यशः ॥

२,३८.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 9

जल भित्त्वा यथा पद्मं नरकादुद्धराम्यहम् ।

शालग्रामजिला यत्र यत्र द्वारवती शिला ॥

२,३८.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 10

उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः ।

शालग्रामशिला यत्र पापदोषक्षयावहा ॥

२,३८.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 11

तत्सन्निधानमरणान्मुक्तिर्जन्तोः सुनिश्चता ।

रोपणात्पालनात्सेकाद्ध्यानस्पर्शनकीर्तनात् ।

तुलसी दहते पापं नृणां जन्मार्जितं खग ॥

२,३८.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 12

ज्ञानहृदे सत्यजले रागद्वेषमलापहे ।

यः स्नातो मानसे तीर्थे न स लिप्येत पातकैः ॥

२,३८.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 13

न काष्ठे विद्यते देवो न शिलायां कदाचन ।

भावे हि विद्यते देवस्तस्माद्भावं समाचरेत् ॥

२,३८.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 14

प्रातः प्रातः प्रपश्यन्ति नर्मदां मत्स्यघातिनः ।

न ते शिवपुरीं यान्ति चित्तवृत्तिर्गरीयसी ॥

२,३८.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 15

यादृक्चित्तप्रतीतिः स्यात्तादृक्कर्मफलं नृणाम् ।

परलोकगतिस्तादृक सूचीसूत्रविचारवत् ॥

२,३८.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 16

ब्राह्मणार्थे गवार्थे च स्त्रीणां बलवधेषु च ।

प्राणत्यागपरो यस्तु स वै मोक्षमवाप्नुयात् ॥

२,३८.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 17

अनाशके मृतौ यस्तु स वै मोक्षमवाप्नुयात् ।

अनाशके मृतो यस्तु स मुक्तः सर्वबन्धनैः ॥

२,३८.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 18

दत्त्वा दानानि विप्रेभ्यस्ततो मोक्षमवाप्नुयात् ।

एते वै मोक्षमार्गाश्च स्वर्गमार्गास्तथैव च ॥

२,३८.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 19

गोग्रहे देशविध्वंसे मरणं रणतीर्थयोः ।

उत्तमाधममध्यस्य बाध्यमानस्य देहिनः ।

आत्मानं तत्र सन्त्यज्य स्वर्गवासं लभेच्चिरम् ॥

२,३८.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 20

जीवितं मरणञ्चैव द्वयं शिक्षेत पण्डितः ।

जीवितं दानभोगाभ्यां मरणं रणतीर्थयोः ॥

२,३८.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 21

हरिक्षेत्रे कुरुक्षेत्रे भृगुक्षेत्रे तथैव च ।

प्रभासे श्रीस्थले चैव अर्बुदे च त्रिपुष्करे ॥

२,३८.२१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 22

भूतेश्वरे मृतो यस्तु स्वर्गे वसति मानवः ।

ब्रह्मणो दिवसं यावत्ततः पतति भूतले ॥

२,३८.२२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 23

वर्षवृत्तिन्तु यो दद्याद्ब्राह्मणे दोषवर्जिते ।

सर्वं कलं स मुद्धृत्य स्वर्गलोके महीयते ॥

२,३८.२३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 24

कन्यां विवाहयेद्यस्तु ब्राह्मणं वेदपारगम् ।

इन्द्रलोके वसेत्सोऽपि स्वकुलैः परिवेष्टितः ॥

२,३८.२४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 25

महादानानि दत्वा च नरस्तत्फलमामुयात् ॥

२,३८.२५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 26

वापी कूपतडागानामारामसुरसद्मनाम् ।

जीर्णोद्धारं प्रकुर्वाणः पूर्वकर्तुः फलं लभेत् ।

जीर्णोद्धारेण वा तेषां तत्पुण्यं द्विगुणं भवेत् ॥

२,३८.२६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 27

शीतवा तातपहरमपि पर्णकुटीरकम् ।

कृत्वा विप्राय विदुषे प्रददाति कुटुम्बिने ॥

२,३८.२७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 28

तिस्रः कोट्योर्धकोटी च नरः स्वर्गे महीयते ॥

२,३८.२८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 29

या स्त्री सवर्णा संशुबा मृतं पतिमनुव्रजेत् ।

सा मृता स्वर्गमाप्नोति वर्षाणां रोमसंख्यता ॥

२,३८.२९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 279, Verse 30

पुत्रपौत्रादिकं त्यक्त्वा स्वपतिं यानुगच्छति ।

स्वर्गं लभेतां तौ चोभौ दिव्यस्त्रीभिरलङ्कृतौ ॥

२,३८.३० ॥