Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274

Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 1

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीदृ धर्मदृप्रेतदृश्रीकृष्णगरुडसंवादे जन्तूत्पत्तितद्गधात्वादिविभागभुवनादिविभागवर्णनं नाम द्वात्रिंशोऽध्यायः श्रीगरुडमहापुराणम्- ३३ गरुड उवाच ।

उत्पत्तिलक्षणं जन्तोः कथितं मयि पुत्त्रके ।

यमलोकः कियन्मात्रस्त्रैलोक्ये सचराचरे ।

विस्तरं तस्य मे ब्रूहि अध्वा चैव कियान्स्मृतः ॥

२,३३.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 2

कैश्च पापैः कृतैर्देव केन वा शुभकर्मणा ।

गच्छन्ति मानवास्तत्र कथयस्व विशेषतः ॥

२,३३.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 3

श्रीभगवानुवाच ।

षटशीतिसहस्राणि योजनानां प्रमाणतः ।

यमलोकस्य चाध्वानमन्तरा मानुषस्य च ॥

२,३३.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 4

ध्मातताम्रमिवातप्तो ज्वलद्दुर्गो महापथः ।

तत्र गच्छन्ति पापिष्ठा मानवा मूढचेतसः ॥

२,३३.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 5

कण्टकाश्च सुतीक्ष्णा वै विविधा घोरदर्शनाः ।

तैस्तुवालुक्षितिर्व्याप्ता हुताशश्च तथोल्बणः ॥

२,३३.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 6

वृक्षच्छाया न तत्रास्ति यत्र विश्रमते नरः ।

गृहीतः कालपाशैश्च कृतैः कर्मभिरुल्बणैः ॥

२,३३.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 7

तस्मिन्मार्गे न चान्नाद्यं येन प्राणान्प्रपोषयेत् ।

न जलं दृश्यते तत्र तृषा येन विलीयते ॥

२,३३.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 8

क्षुधया पीडितो याति तृष्णया च महापथे ।

शीतेन कम्पते क्वापि यममार्गेऽतिदुर्गमे ॥

२,३३.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 9

यद्यस्य यादृशं पापं स पन्थास्तस्य तादृशः ।

सुदीनाः कृपणा मूढा दुःखैर्व्याप्तास्तरन्ति तम् ॥

२,३३.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 10

रुदन्ति दारुणं केचित्केचिद्द्रोहं वदन्ति च ।

आत्मकर्मकृतैर्देषैः पच्यमाना मुहुर्मुहुः ॥

२,३३.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 11

ईदृग्विधः स वै पन्था विज्ञेयो दारुणः खग ।

वितृष्णा ये नरा लोके सुखं तस्मिन्व्रजन्ति ते ॥

२,३३.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 12

यानियानि च दानानि दत्तानि भुवि मानवैः ।

तानितान्युपतिष्ठन्ति यमलोके पुरः पथि ॥

२,३३.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 13

पापिनो नोपतिष्ठन्ति दाहश्राद्धजलाञ्जलि ।

भ्रमन्ति वायुभूतास्ते ये क्षुद्राः पापकर्मिणः ॥

२,३३.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 14

ईदृशं वर्त्म तद्रौद्रं कथितं तव सुव्रत ।

पुनश्च कथयिष्यामि यममार्गस्य या स्थितिः ॥

२,३३.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 15

याम्यनैरृतयोर्मध्ये पुरं वैवस्वतस्य तु ।

सर्वं वज्रमयं दिव्यमभेद्यं तत्सुरासुरैः ॥

२,३३.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 16

चतुरश्रं चतुर्द्वारं सप्तप्राकारतोरणम् ।

स्वयं तिष्ठति वै यस्यां यमो दूतैः समन्वितः ॥

२,३३.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 17

योजनानां सहस्रं वै प्रमाणेन तदुच्यते ।

सर्वरत्नमयं दिव्यं विद्युज्ज्वालार्कतैजसम् ॥

२,३३.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 18

तद्गुहं धर्मराजस्य विस्तीर्णं काञ्चनप्रभम् ।

योजनानां पञ्चशतप्रमाणेन समुच्छ्रितम् ॥

२,३३.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 19

वृतं स्तम्भसहस्रैस्तु वैदूर्यमणिमण्डितम् ।

मुक्ताजालगवाक्षं च पताकाशतभूषितम् ॥

२,३३.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 20

घण्टाशतनिनादाढ्यं तोरणानां शतैर्वृतम् ।

एवमादिभिरन्यैश्च भूषणैर्भूषितं सदा ॥

२,३३.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 21

तत्रस्थो भगवान्धर्म आसने तु समे शुभे ।

दशयो जनविस्तीर्णे नीलजीमूतसन्निभे ॥

२,३३.२१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 22

धर्मज्ञो धर्मशीलश्च धर्मयुक्तो हितो यमः ।

भयदः पापयुक्तानां धार्मिकाणां सुखप्रदः ॥

२,३३.२२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 23

मन्दमारु तसंयोगैरुत्सवैर्विविधैस्तथा ।

व्याख्यानैर्विविधैर्युक्तः शङ्खवादित्रनिः स्वनैः ॥

२,३३.२३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 24

पुरमध्यप्रवेशे तु चित्रगुप्तस्य वै गृहम् ।

पञ्चविंशतिसंख्यानां योजनानां सुविस्तरम् ॥

२,३३.२४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 25

दशोच्छ्रितं महादिव्यं लोहप्राकारवोष्टितम् ।

प्रतोलीशतसंचारं पतताकाशतशोभितम् ॥

२,३३.२५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 26

दीपिकाशतसङ्कीर्णं गीतध्वनिसमाकुलम् ।

विचित्रचित्रकुशलैश्चित्रगुप्तस्य वै गृहम् ॥

२,३३.२६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 27

मणिमुक्तामये दिव्ये आसने परमाद्भुते ।

तत्रस्थो गणयत्यायुर्मानुषेष्वितरेषु च ॥

२,३३.२७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 28

न मुह्यति कदाचित्स सुकृते दुष्कृतेऽपि वा ।

यद्येनोपार्जितं यावत्तावद्वै वेत्ति तस्य तत् ॥

२,३३.२८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 29

दशाष्टदोषरहितं कृत कर्म लिखत्यसौ ।

चित्रगुप्तालयाताच्यां ज्वरस्यास्ति महागृहम् ॥

२,३३.२९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 274, Verse 30

दक्षिणे चापि शूलस्य लताविस्फोटकस्य च ।

पश्चिमे काल पाशस्य अजीर्णस्यारुचेस्तथा ॥

२,३३.३० ॥