Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273

Containing 130 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 1

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे प्रेतकल्पे श्रीकृष्णगरुडसंवादे दानफ लान्यदेहप्रवेशादिनिरूपणं नामै कत्रिंशोऽध्यायः श्रीगरुडमहापुराणम्- ३२ तार्क्ष्य उवाच ।

कथमुत्पद्यते जन्तुर्भूतग्रामे चतुर्विधे ।

त्वचा रक्तं तथा मांसं मेदो मज्जास्थि जीवितम् ॥

२,३२.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 2

पादौ पाणी तथा गुह्यं जिह्वा-केश-नखाः शिरः ।

सन्धिमार्गाश्च बहुशो रेखा नैकविधास्तथा ॥

२,३२.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 3

कामः क्रोधो भयं लज्जा मनो हर्षः सुखासुखम् ।

चित्रितं छिद्रितञ्चापि नानाजालेन वेष्टितम् ॥

२,३२.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 4

इन्द्रजालमिदं मन्ये संसारेऽसारसागरे ।

कर्ता कोऽत्र हृषीकेश संसारे दुःखसंकुले ॥

२,३२.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 5

श्रीविष्णुरुवाच ।

कथयामि परं गोप्यं कोशस्यास्य विनिर्णयम् ।

यस्य विज्ञानमात्रेण सर्वज्ञत्वं प्रज्यते ॥

२,३२.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 6

साधु पृष्टं त्वया लोके सदयं जीवकारणम् ।

वैनतेय श‍ृणुष्व त्वमेकाग्रकृतमानसः ॥

२,३२.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 7

ऋतुकाले च नारीणां वर्ज्यं दिनचतुष्टयम् ।

यतस्तस्मिन्ब्रह्महत्यां पुरा वृत्रसमुत्थिताम् ॥

२,३२.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 8

ब्रह्मा शक्रात्समुत्तार्य चतुर्थांशेन दत्तवान् ।

तावन्नालोक्यते वक्त्रं पापं यावद्वपुः स्थितम् ॥

२,३२.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 9

प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातिनी ।

तृतीये रजकी ज्ञेया चतुर्थेऽहनि शुध्यति ॥

२,३२.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 10

सप्ताहात्पितृदेवानां भवेद्योग्या कृतार्चने ।

सप्ताहमध्ये यो गर्भस्तत्सम्भूतिर्मलिम्लुचा ॥

२,३२.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 11

निषकसमये पित्रोर्यादृक्चित्तविकल्पना ।

तादृग्गर्भसमुत्पत्तिर्जायते नात्र संशयः ॥

२,३२.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 12

युग्मासु पुत्त्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ।

पूर्वसप्तममुत्सृज्य तस्माद्युग्मासु संविशेत् ॥

२,३२.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 13

षोडशर्तुर्निशाः स्त्रीणां सामान्यात्समुदाहृतः ।

या चतुर्दशमी रात्रिर्गर्भस्तिष्ठति तत्र चेत् ॥

२,३२.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 14

गुणभाग्यनिधिः पुत्रस्तत्र जायेत धार्मिकः ।

सा निशा तत्र सामान्यैर्न लभ्येत खगाधिप ॥

२,३२.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 15

प्रायशः सम्भवत्यत्र गर्भस्त्वष्टाहमध्यतः ।

पञ्चमेऽहनि नारीणां कार्यं माधुर्यभोजनम् ॥

२,३२.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 16

कटुक्षारञ्च तीक्ष्णञ्च त्याज्यमुष्णञ्च दूरतः ।

तत्क्षेत्रमोषधीपात्रं बीजञ्चाप्यमृतायितम् ॥

२,३२.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 17

तस्मिन्नुप्त्वा नरः स्वामी सम्यक्फलमवाप्नुयात् ।

तस्याश्चैवातपो वर्ज्य शीतलं केवलं चरेत् ॥

२,३२.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 18

ताम्बूलपुष्पश्रीखण्डैः संयुक्तः शुचिवस्त्रभृत् ।

धर्ममादाय मनसि सुतल्पं संविशेत्पुमान् ॥

२,३२.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 19

निषेकसमये यादृङ्नरचित्तविकल्पना ।

तादृक्स्वभावसम्भूतिर्जन्तुर्विशति कुक्षिगः ॥

२,३२.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 20

शुक्रसोणितसंयोगे पिण्डोत्पत्तिः प्रजायते ।

वर्धते जठरे जन्तुस्तारापतिरिवाम्बरे ॥

२,३२.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 21

चैतन्यं बीजरूपं हि शुक्रे नित्यं व्यवस्थितम् ।

कामश्चित्तञ्च शुक्रञ्च यदा ह्येकत्वमाप्नुयुः ॥

२,३२.२१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 22

तदा द्रावमवाप्नोति योषागर्भाशये नरः ।

रक्ताधिक्ये भवेन्नारी शुक्राधिक्ये भवेत्पुमान् ॥

२,३२.२२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 23

शुक्रसोणितयो साम्ये गर्भाः षण्डत्वमाप्नुयुः ।

अहोरात्रेण कलिलं बुद्वदं पञ्चभिदिनैः ॥

२,३२.२३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 24

चतुर्दशे भवेन्मांसं मिश्रधातुसमन्वितम् ।

घनं मांसञ्च विंशाहे गर्भस्थो वर्धते क्रमात् ॥

२,३२.२४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 25

पञ्चविंशतिमे चाह्नि बलं पुष्टिश्च जायते ।

तथा मासे तु सम्पूर्णे पञ्चतत्त्वं निधारयेत् ॥

२,३२.२५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 26

मासद्वये तु सञ्जाते त्वचा मेदश्च जायते ।

मज्जास्थीनि त्रिभिर्मासैः केशाङ्गुल्यश्चतुर्थके ॥

२,३२.२६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 27

कर्णौ च नासिके वक्षो जायेरन्मासि पञ्चमे ।

कण्ठरन्ध्रोदरं षष्ठे गुह्यादिर्मासि सप्तमे ॥

२,३२.२७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 28

अङ्गप्रत्यङ्गसम्पूर्णो गर्भो मासैरथाष्टभिः ।

अष्टमे चलते जीवो धात्रीगर्भे पुनः पुनः ।

नवमेमासि सम्प्राप्ते गर्भस्थौजौ दृढं भवेत् ॥

२,३२.२८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 29

चिकित्सा जायते तस्य गर्भवासपरिक्षये ।

नारी वाथ नरो वाथ नपुंस्त्वं वाभिजायते ॥

२,३२.२९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 273, Verse 30

शक्तित्रयं विशालाक्षं षाट्कौशिकसमायुतम् ।

पञ्चेन्द्रियसमोपेतं दशनाडीविभूषितम् ॥

२,३२.३० ॥