Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272

Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 1

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे नानादाननिरूपणं नाम त्रिंसोऽध्यायः श्रीगरुडमहापुराणम्- ३१ श्रीविष्णुरुवाच ।

ये नराः पापसंयुक्तास्ते गच्छन्ति यमालयम् ।

नृणां मत्साक्षिकं दत्तमनन्तफलदं भवेत् ॥

२,३१.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 2

यावद्रजः प्रमाणाब्दंस्वर्गे तिष्ठति भूमिदः ।

अश्वारूढाश्च ते यान्ति ददते ये ह्युपानहौ ॥

२,३१.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 3

आतपे श्रमयोगेन न दह्यन्ते च कुत्रचित् ।

छत्त्रदानेन वै प्रेता विचरन्ति सुखं पथि ॥

२,३१.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 4

यमुद्दिश्य ददात्यन्नं तेन चाप्यायितो भवेत् ॥

२,३१.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 5

अन्धकारे महाघोरे अमूर्ते लक्ष्यवर्जिते ।

उद्द्योतेनैव ते यान्ति दीपदानेन मानवाः ॥

२,३१.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 6

आश्विने कर्तिके वापि माघे मृततिथावपि ।

चतुर्दश्याञ्च दीयेत दीपदानं सुखाय वै ॥

२,३१.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 7

प्रत्यहञ्च प्रदातव्यं मार्गे सुविषमे नरैः ।

यावत्संवत्सरं वापि प्रेतस्य सुखलिप्सया ॥

२,३१.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 8

कुले द्योतति शुद्धात्मा प्रकाशत्वं स गच्छति ।

ज्योतिर्मयोऽसौ पूज्योऽसौ दीपदानप्रदो नरः ॥

२,३१.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 9

प्राङ्मुखोदङ्मुखं दीपं देवागारे द्विजातये ।

कुर्याद्याम्यमुखं पित्रे अद्भिः सङ्कल्प्य सुस्थिरम् ॥

२,३१.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 10

सर्वोपहारयुक्तानि पदान्यत्र त्रयोदश ।

यो ददाति मृतस्येह जीवन्नप्यात्महेतवे ।

स गच्छति महामार्गे महाकष्टविवर्जितः ॥

२,३१.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 11

आसनं भाजनं भोज्यं दीयते यद्द्विजायते ।

सुखे न भुञ्जमानस्तु देन गच्छत्यलं पथि ॥

२,३१.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 12

कमण्डलुप्रदानेन तृषितः पिबते जलम् ॥

२,३१.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 13

भाजनं वस्त्रदानञ्च कुसुमञ्चाङ्गुलीयकम् ।

एकादशा हे दातव्यं प्रेतोद्धरणहेतवे ॥

२,३१.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 14

त्रयोदश पदानीत्थं प्रेतस्य शुभमिच्छता ।

दातव्यानि यथाशक्त्या प्रेतोऽसौ प्रीणितो भवेत् ॥

२,३१.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 15

भोजना नि तिलांश्चैव उदकुम्भांस्त्रयोदश ।

मुद्रिकां वस्त्रयुग्मञ्च तया याति परां गतिम् ॥

२,३१.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 16

योऽश्वं नावं गजं वापि ब्राह्मणे प्रतिपादयेत् ।

स महिम्नोऽनुसारेण तत्तत्सुखमुपाश्नुते ॥

२,३१.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 17

नानालोकान्विचरति महिषीञ्च ददाति यः ।

यमपुत्त्रस्य या माता महिषी सुगतिप्रदा ॥

२,३१.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 18

ताम्बूलं कुसुमं देयं याम्यानां हर्षवर्धनम् ।

तेन सम्प्रीणिताः सर्वे तस्मिन्क्लेशं न कुर्वते ॥

२,३१.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 19

गो-भू-तिल-हिरण्यानि दानान्याहुः स्वशक्तितः ॥

२,३१.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 20

मृतोद्देशेन यो यद्याज्जलपात्रञ्च मृन्मयम् ।

उदपात्रसहस्रस्य फलमाप्नोति मानवः ॥

२,३१.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 21

यमदूता महारौद्राः करालाः कृष्णपिङ्गलाः ।

न भीषयन्ति तं याम्या वस्त्रदाने कृते सति ॥

२,३१.२१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 22

मार्गे हि गच्छमानस्तु तृष्णार्तः श्रमपीडितः ।

घटान्नदानयोगेन सुखी भवति निश्चितम् ॥

२,३१.२२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 23

शय्या दक्षिणया युक्ता आयुधाम्बरसंयुता ।

हैमश्रीपतिना युक्ता देया विप्राय शर्मणे ।

तथा प्रेतत्वमुक्तोऽसौ मोदते सह दैवतैः ॥

२,३१.२३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 24

एतत्ते कथितं तार्क्ष्य दानमन्त्येष्टिकर्मजम् ।

अधुना कथयिष्येऽहमन्यदेहप्रवेशनम् ॥

२,३१.२४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 25

जातस्य मृत्युलोके वै प्राणिनो मरणं ध्रुवम् ।

मृतिः कुर्यात्स्वधर्मेण यास्यतश्च परन्तप ॥

२,३१.२५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 26

पूर्वकाले मृतानाञ्च प्राणिनाञ्च खगेश्वर ।

सूक्ष्मोभूत्वा त्वसौ वायुर्निर्गच्छत्यास्यमण्डलात् ॥

२,३१.२६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 27

नवद्वारै रोमभिश्च जनानां तालुरन्ध्रके ।

पापिष्ठानामपानेन जीवो निष्क्रामति ध्रुवम् ॥

२,३१.२७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 28

शरीरञ्च पतेत्पश्चान्निर्गते मरुतीश्वरे ।

वाताहतः पतत्येव निराधारो यथा द्रुमः ॥

२,३१.२८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 29

पृथिव्यां लीयते पृथ्वी आपश्चैव तथाप्सु च ।

तेजस्तेजसि लीयते समीरणः समीरणे ।

आकाशे च तथा काशः सर्वव्यापी च शङ्करे ॥

२,३१.२९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 272, Verse 30

तत्र कामस्तथा क्रोधः काये पञ्चेन्द्रियाणि च ।

एते तार्क्ष्य समाख्याता देहे तिष्ठन्ति तस्कराः ॥

२,३१.३० ॥