Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271

Containing 53 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 1

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे प्रेतकल्पे धर्मकाण्डे श्रीकृष्णगरुडसंवादे और्ध्वदेहिककर्मणि पुत्रदर्भतिलतुलसीगोभूलेपताम्रपात्रदाना दीनामावश्यकत्वनिरूपणं नामैकोनत्रिशोऽध्यायः श्रीगरुडमहापुराणम्- ३० श्रीकृष्ण उवाच ।

श‍ृणु तार्क्ष्य परं गुह्यं दानानां दानमुत्तमम् ।

परमं सर्वदानानां परं गोप्यं दिवौकसाम् ॥

२,३०.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 2

देयमेकं महादानं कार्पासं चोत्तमोत्तमम् ।

येन दत्तेन प्रीयन्ते भूर्भुवः स्वरिति क्रमात् ॥

२,३०.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 3

ब्रह्माद्या देवताः सर्वाः कार्याच्च प्रीतिमाप्नुयुः ।

देयमेतन्महादानं प्रेतोद्धरणहेतवे ॥

२,३०.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 4

चिरं वसेद्रुद्रलोके ततो राजा भवेदिह ।

रूपवान्सुभगो वाग्मी श्रीमानतुल विक्रमः ।

यमलोकं विनिर्जित्य स्वर्गं ताक्ष्य स गच्छति ॥

२,३०.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 5

गां तिलांश्च क्षितं हेम यो ददाति द्विजन्मने ।

तस्य जन्मार्जिर्त पापं तत्क्षणादेवनश्यति ॥

२,३०.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 6

तिला गावो महादानं महापातकनाशनम् ।

तद्द्वयं दीयते विप्रे नान्यवर्णे कदाचन ॥

२,३०.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 7

कल्पितं दीयते दानं तिला गावश्चमेदिनी ।

अन्येषु नैव वर्णेषु पोष्यवर्गे कदाचन ॥

२,३०.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 8

पोष्यवर्गे तथा स्त्रीषु दानं देयमकल्पितम् ।

आतुरे वोपरागे च द्वयं दानं विशिष्यते ।

आतुरे दीयते दानं तत्काले चोपतिष्ठति ॥

२,३०.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 9

जीवतस्तु पुनर्दत्तमुपतिष्ठत्यसंस्कृतम् ।

सत्यंसत्यं पुनः सत्यं यद्दत्तं विकलेन्द्रिये ॥

२,३०.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 10

यच्चानु मोदते पुत्रस्तच्च दानमनन्तकम् ।

अतो दद्यात्स पुत्रो वा यावज्जीवत्ससौ चिरम् ।

अतिवाहस्तथा प्रेतो भोगांश्च लभते यतः ॥

२,३०.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 11

अस्वस्था तुरकाले तु देहपाते क्षितिस्थिते ।

देहे तथातिवाहस्य परतः प्रीणनं भवेत् ॥

२,३०.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 12

पङ्गावन्धे च काणे च ह्यर्धोन्मीलितलोचने ।

तिलेषु दर्भान्संस्तीर्य दानमुक्तं तदक्षयम् ॥

२,३०.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 13

तिला लौहं हिरण्यञ्च कार्पासं लवणं तथा ।

सप्तधान्यं क्षितिर्गाव एकैकं पावनं स्मृतम् ॥

२,३०.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 14

लोहदानाद्यमस्तुष्येद्धर्म राजस्तिलार्पणात् ।

लवणे दीयमाने तु न भयं विद्यते यमात् ॥

२,३०.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 15

कर्पासस्य तु दानेन न भूतेभ्यो भयं भवेत् ।

तारयन्ति नरं गावस्त्रिविधाश्चैव पातकात् ॥

२,३०.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 16

हेमदानात्सुखं स्वर्गे भूमिदानान्नृपो भवेत् ।

हेमभूमिप्रदानाच्च न पीडा नरके भवेत् ॥

२,३०.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 17

सर्वेऽपि यमदूताश्च यमरूपा विभीषणाः ।

सर्वे ते वरदा यान्ति सप्तधान्येन प्रीणिताः ॥

२,३०.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 18

विष्णोः स्मरणमात्रेण प्राप्यते परमा गतिः ।

एतत्ते सर्वमाख्यातं मर्त्यैर्या गतिराप्यते ॥

२,३०.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 19

तस्मात्पुत्रं प्रशंसन्ति ददाति पितुराज्ञया ।

भूमिष्ठं पितरं दृष्ट्वा ह्यर्धोन्मीलितलोचनम् ॥

२,३०.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 20

तस्मिन्काले सुतो यस्तु सर्वदानानि दापयेत् ।

गयाश्राद्धाद्विशिष्येत स पुत्रः कुलनन्दनः ॥

२,३०.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 21

स्वस्थानाच्चलितश्चासौ विकलस्य पितुस्तदा ।

पुत्रैर्यत्नेन कर्तव्या पितरं तारयन्ति ते ॥

२,३०.२१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 22

किं दत्तैर्बहुभिर्दानैः पितुरन्त्येष्टिमाचरेत् ।

अश्वमेधो महायज्ञः कलां नार्हति षोडशीम् ॥

२,३०.२२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 23

धर्मात्मा स नु पुत्रो वैदेवैरपि सुपूज्यते ।

दापयेद्यस्तु दानानि ह्यातुरं पितरं भुवि ॥

२,३०.२३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 24

लोहदानञ्च दातव्यं भूमियुक्तेन पाणिना ।

यमं भीमञ्च नाप्नोति न गच्छेत्तस्य वेश्मनि ॥

२,३०.२४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 25

कुठारो मुसलो दण्डः खड्गश्च च्छुरिका तथा ।

एतानि यमहस्तेषु दृश्यानि पापकर्मिणाम् ॥

२,३०.२५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 26

तस्माल्लोहस्य दानन्तु ब्राह्मणायातुरो ददेत् ।

यमायुधानां सन्तुष्ट्यै दानमेतदुदाहृतम् ॥

२,३०.२६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 27

गर्भस्थाः शिशवो ये च युवानः स्थविरास्तथा ।

एभिर्दानविशेषैस्तु निर्दहेयुः स्वपातकम् ॥

२,३०.२७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 28

छुरिणः श्यामशबलौ षण्डामर्का उदुम्बराः ।

शबला श्यामदूता ये लोहदानेन प्रीणिताः ॥

२,३०.२८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 29

पुत्राः पौत्रास्तथा बन्धुः सगोत्राः सुहहृदस्तथा ।

ददते नातुरे दानं ब्रह्मघ्नैस्तु समा हि ते ॥

२,३०.२९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 271, Verse 30

पञ्चत्वे भूमियुक्तस्य श‍ृणु तस्य च या गतिः ।

अतिवाहः पुनः प्रेतोवर्षोर्ध्वं सुकृतं लभेत् ॥

२,३०.३० ॥