Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268

Containing 66 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 1

इति श्रीगारुडे महापुराणे उत्तरखण्डेद्वितीयांशे धर्मकाण्डे श्रीकृष्णगरुडसंवादे प्रेतकल्पे सपिण्डननिरूपणं नाम षड्विंशोऽध्यायः श्रीगरुडमहापुराणम्- २७ तार्क्ष्य उवाच ।

कथं प्रेता वसन्त्यत्र कीदृग्रूपा भवन्ति ते ।

महाप्रेताः पिशाचाश्च कैःकैः कर्मफलैर्विभो ।

सर्वेषामनुकम्पार्थं ब्रूहि मे मधुसूदन ॥

२,२७.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 2

प्रेतत्वान्मुच्यते येन दानेन च शुभे न च ।

तन्मे कथय देवेश मम चेदिच्छसि प्रियम् ॥

२,२७.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 3

श्रीकृष्ण उवाच ।

साधु पृष्टं त्वया तार्क्ष्य मानुषाणां हिताय वै ।

श‍ृणुचावहितो भूत्वा यद्वच्मि प्रेतलक्षणम् ॥

२,२७.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 4

गुह्यद्गुह्यतरं ह्येतन्नाख्येयं यस्य कस्यचित् ।

भक्तस्त्वं हि महाबाहो तेन ते कथयाम्यहम् ॥

२,२७.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 5

पुरा त्रेतायुगे तात राजासीद्बभ्रुवाहनः ।

महोदयपुरे रम्ये धर्मनिष्ठो महाबलः ॥

२,२७.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 6

यज्वा दानपतिः श्रीमान्ब्रह्मण्यः साधुसमतः ।

शीलाचारगुणोपेतो दयादाक्षिण्यसंयुतः ॥

२,२७.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 7

प्रजाः पालयते नित्यं पुत्रानिव महाबलः ।

क्षत्रधर्मरतो नित्यं स दण्ड्यान्दण्डयन्नृपः ॥

२,२७.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 8

स कदाचिन्महाबाहुः ससैन्योमृगयां गतः ।

वनं विवेश गहनं नानावृक्षसमन्वितम् ॥

२,२७.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 9

शार्दूलशतसंजुष्टं नानापक्षिनिनादितम् ।

वनमध्ये तदा राजा मृगं दूरादपश्यत ॥

२,२७.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 10

तेन विद्धो मृगोऽतीव बाणेन सुदृढेन च ।

बाणमादाय तं तस्य स वनेऽदर्शनं ययौ ॥

२,२७.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 11

कक्षे तच्छोणितस्त्रावात्स राजानुजगाम तम् ।

ततो मृगप्रसङ्गेन वनमन्यद्विवेश सः ॥

२,२७.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 12

क्षुत्क्षामकण्ठो नृपतिः श्रमसन्तापमूर्छितः ।

जलस्थानं समासाद्य साश्व एवावगाहत ॥

२,२७.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 13

पीत्वा तदु दकं शीतं पद्मगन्धाधिवासितम् ।

तत उत्तीर्य सलिलाद्विमलाद्बभ्रुवाहनः ॥

२,२७.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 14

न्यग्रोधवृक्षमासाद्य शीतच्छायं मनोहरम् ।

महाविटपिनं हृद्यं पक्षिसङ्घातनादितम् ॥

२,२७.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 15

वनस्य तस्य सर्वस्य केतुभूतमिवोच्छ्रितम् ।

तं महातरुमासाद्य निषसाद महीपतिः ॥

२,२७.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 16

अथ प्रेतं ददर्शासौ क्षुत्तृष्णाव्याकुलेन्द्रियम् ।

उत्कचं मलिनं कुब्जं (रूक्षं) निर्मांसं भीमदर्शनम् ॥

२,२७.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 17

स्नायुबद्धास्थिचरणं धावमानमितस्ततः ।

अन्यैश्च बहुभिः प्रेतैः समन्तात्परिवारितम् ॥

२,२७.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 18

तं दृष्ट्वा विकृतं घोरं विस्मितो बभ्रुवाहनः ।

प्रेतोऽपि दृष्ट्वा तां घोरामटवीमागतं नृपम् ॥

२,२७.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 19

तदा हृष्टमना भूत्वा तस्यान्तिकमुपागतः ।

अब्रवीत्स तदा तार्क्ष्य प्रेतराजो नृपं वचः ॥

२,२७.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 20

प्रेतभावो मया त्यक्तः प्राप्तोऽस्मि परमां गतिम् ।

त्वत्संयोगान्महाबाहो नास्तिधन्यतरो मम ॥

२,२७.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 21

नृपतिरुवाच ।

कृष्णवर्णः करालास्यस्त्वं प्रेत इव लक्ष्यसे ।

कथयस्व मम प्रीत्या यथैवं चासि तत्त्वतः ॥

२,२७.२१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 22

तथा पृष्टः स वै राज्ञा प्रोवाच सकलं स्वकम् ॥

२,२७.२२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 23

प्रेत उवाच ।

कथयामि नृपश्रेष्ठ सर्वमेवादितस्तव ।

प्रेतत्वे कारणं श्रुत्वा दयां कर्तुं ममार्हसि ॥

२,२७.२३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 24

वैदिशं नाम नगरं सर्वसम्पत्समन्वितम् ।

नानाजनपदाकीर्णं नानारत्नसमाकुलम् ।

नानापुण्यसमायुक्तं नानावृक्षसमाकुलम् ॥

२,२७.२४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 25

तत्राहं न्यवसं भूयो देवार्चनरतः सदा ।

वैश्यो जात्या सुदेवोऽहं नाम्ना विदितमस्तु ते ॥

२,२७.२५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 26

हव्येन तर्पिता देवाः कव्येन पितरस्तथा ।

विविधैर्दानयोगैश्च विप्राः सन्तर्पिता मया ॥

२,२७.२६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 27

आवाहाश्च विवाहाश्च मया वै सुनिवेशिताः ।

दीनानाथविशिष्टेभ्यो मया दत्तमनेकधा ॥

२,२७.२७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 28

तत्सर्वं विफलं तात मम दैवादुपागतम् ।

यथा मे निष्फलं जातं सुकृतं तद्वदामि ते ॥

२,२७.२८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 29

न मेऽस्ति सन्ततिस्तात न सुहृन्न च बान्धवः ।

न च मित्रं हि मे तादृग्यः कुर्यादौर्ध्वदैहिकम् ॥

२,२७.२९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 268, Verse 30

प्रेतत्वं सुस्थिरं तेन मम जातं नृपोत्तम ।

एकादशं त्रिपक्षं च षाण्मासिकमथाब्दिकम् ।

प्रतिमास्यानि चान्यानि एवं श्राद्धानि षोडश ॥

२,२७.३० ॥