पूर्वखण्डः (आचारकाण्डः), अध्याय 26, Verse 1
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे आसनपूजानिरूपणं नाम पञ्चविंशोऽध्यायः श्रीगरूडमहापुराणम्- २६ सूत उवाच ।
अनन्तरं करन्यासः ।
विद्याकरी शुद्धिः कार्या ।
पद्ममुद्रां बद्ध्वा मन्त्रन्यासं कुर्यात् ।
कैं कनिष्ठायै नमः ।
नैं अनामिकायै नमः ।
मैं मध्यमायै नमः ।
तैं तर्जन्यै नमः ।
अं अङ्गुष्ठायै नमः ।
लां करतलायै नमः ।
वां करपृष्ठायै नमः ॥
१,२६.१ ॥