Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259

Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 1

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतक्लपे श्रवणमहात्म्यनिरूपणं नाम सप्तदसोऽध्यायः श्रीगरुडमहापुराणम्- १८ श्रीकृष्ण उवाच ।

श्रवणानां वचः श्रुत्वा क्षणं ध्यात्वा पुनस्ततः ।

यत्कृतं तु मनुष्यैश्चपुण्यं पापमहर्निशम् ॥

२,१८.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 2

तत्सर्वं च परिज्ञाय चित्रगुप्तो निवेदयेत् ।

चित्रगुप्तस्ततः सर्वं कर्म तस्मै वदत्यथ ॥

२,१८.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 3

वाचैव यत्कृतं कर्म कृतं चैव तु कायिकम् ।

मानसं च तथा कर्म कृतं भुङ्क्ते शुभाशुभम् ॥

२,१८.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 4

एवं ते कथितस्तार्क्ष्य प्रेतमार्गस्य निर्णयः ।

विश्रान्ति दानि सर्वाणि स्थानानि कथितानि ते ॥

२,१८.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 5

तमुद्दिश्य ददात्यन्नं सुखं याति महाध्वनि ।

दिवा रात्रौ तमुद्दिश्य स्थाने दीपप्रदो भवेत् ॥

२,१८.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 6

अन्धकारे महाघोरे श्वपूर्णे लक्ष्यवर्जिते ।

दीप्तेऽध्वनि च ते यान्ति दीपो दत्तश्च यैर्नरैः ॥

२,१८.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 7

कार्तिके च चतुर्दश्यां दीपदानं सुखाय वै ।

अथ वक्ष्यामि संक्षेपाद्यममार्गस्य निष्कृतिम् ॥

२,१८.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 8

वृषोत्सर्गस्य पुण्येन पितृलोकं स गच्छति ।

एकादशाहपिण्डेन शुद्धदेहो भवेत्ततः ॥

२,१८.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 9

उदकुम्भप्रदानेन किङ्करास्तृप्तिमाप्नुयुः ॥

२,१८.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 10

शय्यादानाद्बिमानस्थो याति स्वर्गेषु मानवः ।

तदह्नि दीयते सर्वं द्वादशाहे विशेषतः ॥

२,१८.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 11

पदानि सर्ववस्तूनि वरिष्ठानि त्रयोदशे ।

यो ददाति मृतस्येह जीवन्नप्यात्महेतवे ॥

२,१८.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 12

तदाश्रितो महामार्गे वैनतेय स गच्छति ।

एक एवास्ति सर्वत्रे व्यवहारः खगाधिप ॥

२,१८.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 13

उत्तमाधममध्यानां तत्तदावर्जनं भवेत् ।

यावद्भाग्यं भवेद्यस्य तावन्मार्गेऽतिरिच्यते ॥

२,१८.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 14

स्वयं स्वस्येन यद्दत्तं तत्तत्राधिकरोति तम् ।

मृते यद्बान्धवैर्दत्तं तदाश्रित्य सुखी भवेत् ॥

२,१८.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 15

गरुड उवाच ।

कस्मात्पदानि देयानि किंविधानि त्रयोदश ।

दीयते कस्य देवेश तद्वदस्व यथातथम् ॥

२,१८.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 16

श्रीभगवानुवाच ।

छत्त्रोपानहवस्त्राणि मुद्रिका च कमण्डलुः ।

आसनं भाजनं चैव पदं सप्तविधं स्मृतम् ॥

२,१८.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 17

आतपस्तत्र यो रौद्रो दह्यते येन मानवः ।

छत्रदानेन सुच्छाया जायते प्रेततुष्टिदा ॥

२,१८.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 18

असिपत्रवनं घोरं सोऽतिक्रामति वै ध्रुवम् ।

अश्वारूढाश्च गच्छन्ति ददते य उपानहौ ॥

२,१८.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 19

आसने स्वागते (भोजने) चैव दत्तं तस्मै द्विजायते ।

सुखेन भुङ्क्ते स प्रेतः पथि गच्छञ्छनैः शनैः ॥

२,१८.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 20

बहुधर्मसमाकीर्णे निर्वाते तोयवर्जिते ।

कमण्डलुप्रदानेन सुखी भवति निश्चितम् ॥

२,१८.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 21

मृतोद्देशेन यो दद्यादुदपात्रं तु ताम्रजम् ।

प्रपादानसहस्रस्य तत्फलं सोऽश्नुते ध्रुवम् ॥

२,१८.२१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 22

यमदूता महारौद्राः करालाः कृष्णपिङ्गलाः ।

न पीडयन्ति दाक्षिण्याद्वस्त्राभारणदानतः ॥

२,१८.२२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 23

सायुधा धावमानाश्च न मार्गे दृष्टिगोचराः ।

प्रयान्ति यमदूतास्ते मुद्रिकायाः प्रदानतः ॥

२,१८.२३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 24

भाजनासनदानेन आमान्नभोजनेन च ।

आज्ययज्ञोपवीताभ्यां पदं सम्पूर्णतां व्रजेत् ॥

२,१८.२४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 25

एवं मार्गे गच्छमानस्तृषार्तः श्रमपीडितः ।

महिषीरथ (दुग्ध) दानाच्च सुखी भवति निश्चितम् ॥

२,१८.२५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 26

गरुड उवाच ।

मृतोद्देशेन यत्किञ्चिद्दीयते स्वगृहे विभो ।

स गच्छति महामार्गे तद्दत्तं केन गृह्यते ॥

२,१८.२६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 27

श्रीभगवानुवाच ।

गृह्णाति वरुणो दानं मम हस्ते प्रयच्छति ।

अहं च भास्करे देवे भास्करात्सोऽश्नुते सुखम् ॥

२,१८.२७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 28

विकर्मणः प्रभावेण वंशच्छेदे क्षिताविह ।

सर्वे ते नरकं यान्ति यावत्पापस्य संक्षयः ॥

२,१८.२८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 29

कस्मिंश्चित्समये पूर्णे महिषासनसंस्थितः ।

नरकान्वीक्ष्य धर्मात्मा नानाक्रन्दसमाकुलान् ॥

२,१८.२९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 259, Verse 30

चतुरशीतिलक्षाणां नरकाणां स ईश्वरः ।

तेषां मध्ये श्रेष्ठतमा घोरा या एकविंशतिः ॥

२,१८.३० ॥