Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253

Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 1

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवाहे ऊर्ध्वाधोगतिज्ञापकोत्क्रमणद्वारनिरूपणं नामैकादशोऽध्य्याः श्रीगरुडमहापुराणम्- १२ श्रीकृष्ण उवाच ।

एवं ते कथितस्तार्क्ष्य जीवितस्य विनर्णयः ।

मानुषाणां हितार्थाय प्रेतत्वविनिवृत्तये ॥

२,१२.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 2

चतुरशीतिलक्षाणि चतुर्भेदाश्च जन्तवः ।

अण्डजाः स्वेदजाश्चैव उद्भिज्जाश्च जारायुजाः ॥

२,१२.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 3

एकविंशतिलक्षाणि अण्डजाः परिकीर्तिताः ।

स्वेदजाश्च तथा प्रोक्ता उद्भिज्जाश्च क्रमेण तु ॥

२,१२.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 4

जरायुजास्तथा प्रोक्ता मनुष्याद्यास्तथा परे ।

सर्वेषामेव जन्तूनां मानुषत्वं हि दुर्लभम् ॥

२,१२.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 5

पञ्चेन्द्रियनिधानत्वं महापुण्यैरवाप्यते ।

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रास्तत्परजातयः ॥

२,१२.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 6

रजकश्चर्मकारश्च नटो बुरुड एव च ।

कैवर्तमेदभिल्लाश्च सप्तैते ह्यन्त्यजाः स्मृताः ॥

२,१२.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 7

म्लेच्छतुम्बविभेदेन जातिभेदास्त्वनेकशः ।

जन्तूनामेव सर्वेषां जातिभेदाः सहस्रशः ॥

२,१२.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 8

जन्तूनामेव सर्वेषां भेदाश्चैव सहस्रशः ।

आहारो मैथुनं निद्रा भयं क्रोधस्तथैव च ॥

२,१२.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 9

सर्वेषा मेव जन्तूनां विवेको दुर्लभः परः ।

एकपादादिरूपेण देहभेदास्त्वनेकशः ॥

२,१२.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 10

कृष्णसारो मृगो यत्र धर्मदशः स उच्यते ।

ब्रह्माद्या देवताः सर्वास्तत्र तिष्ठन्ति सर्वशः ॥

२,१२.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 11

भूतानां प्राणिनः श्रेष्ठाः प्राणिनां मतिजीविनः ।

मतिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ॥

२,१२.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 12

मानुष्यं यः समासाद्य स्वर्गमेक्षैकसाधकम् ।

तयोर्न साधयेदेकं तेनात्मा वञ्चितो ध्रुवम् ॥

२,१२.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 13

इच्छति शती सहस्रं सहस्री लक्षमीहते कर्तुम् ।

लक्षाधिपती राज्यं राजापि सकलां धरां लब्धुम् ॥

२,१२.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 14

चक्रधरोऽपि सुरत्वं सुरभावे सकलसुरपतिर्भवितुम् ।

सुरपतिरूर्ध्वगतित्वं तथापि ननिवर्तते तृष्णा ॥

२,१२.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 15

तृष्णया चाभिभूतस्तु नरकं प्रतिपद्यते ।

तृष्णामुक्तास्तु ये केचित्स्वर्गवासं लभन्ति ते ॥

२,१२.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 16

आत्माधीनः पुमांल्लोके सुखी भवति निश्चितम् ।

शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः ॥

२,१२.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 17

तथा च विषयाधीनो दुःखी भवति निश्चितम् ॥

२,१२.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 18

कुरङ्गमातङ्गपतङ्गभृङ्गमीना हताः पञ्चभिरेव पञ्च ।

एकः प्रमादी स कथं न हन्यते यः सेवते पञ्चभिरेव पञ्च ॥

२,१२.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 19

पितृमातृमयो बाल्ये यौवने दयितामयः ।

पुत्रपौत्रमयश्चान्ते मूढो नात्ममयः क्वचित् ॥

२,१२.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 20

लोहदारुमयैः पाशैः पुमान्बद्धो विमुच्यते ।

पुत्रदारमयैः पाशैर्नैव बद्धो विमुच्यते ॥

२,१२.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 21

एकः करोति पापानि फलं भुङ्क्ते महाजनः ।

भोक्तारो विप्रयुज्यन्ते कर्ता दोषेण लिप्यते ॥

२,१२.२१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 22

कोऽपि मृत्युं न जयति बालो वृद्धो युवापि वा ।

सुखदुःखादिको वापि पुनरायाति याति च ॥

२,१२.२२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 23

सर्वेषां पश्यतामेव मृतः सर्वं परित्यजेत् ।

एकः प्रजायते जन्तुरेक एव प्रलीयते ॥

२,१२.२३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 24

एकोऽपि भुङ्क्ते सुकृतमेक एव च दुष्कृतम् ।

मृतं शरीरमुत्सृज्य काष्ठलोष्टसमङ्क्षितौ ॥

२,१२.२४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 25

बान्धवा विमुखा यान्ति धर्मस्तमनुगच्छति ।

गृहेष्वर्था निवर्तन्ते श्मशानान्मित्रबान्धवाः ॥

२,१२.२५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 26

शरीरं वह्निरादत्ते सुकृतं दुष्कृतं व्रजेत् ।

शरीरं वह्निना दग्धं पुण्यं पापं सह स्थितम् ॥

२,१२.२६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 27

शुभं वा यदि वा पापं भुङ्क्ते सर्वत्र मानवः ।

यदनस्तमिते सूर्ये न दत्तं धनमर्थिनाम् ॥

२,१२.२७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 28

न जाने तस्य तद्वित्तं प्रातः कस्य भविष्यति ।

रारटीति धनं तस्य को मे भर्ता भविष्यति ॥

२,१२.२८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 29

न दत्तं द्विजमुख्येभ्यः परोपकृतये तथा ।

पूर्वजन्मकृतात्पुण्याद्यल्लब्धं बहु चाल्पकम् ॥

२,१२.२९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 253, Verse 30

तदीदृशं परिज्ञाय धर्मार्थे दीयते धनम् ।

धनेन धार्यते धर्मः श्रद्धापूतेन चेतसा ॥

२,१२.३० ॥