Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 252

Containing 11 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 252, Verse 1

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीदृधर्मदृप्रेतकल्पे श्रीकृष्णगरुडसंवादे श्राद्धस्य तृप्तिदत्वादिनिरूपणं नाम दशमोऽध्यायः श्रीगरुडमहापुराणम्- ११ गरुड उवाच ।

मानुषत्वं लभेत्कस्मान्मृत्युमाप्नोति तत्कथम् ।

म्रियते कः सुरश्रेष्ठ देहमाश्रित्य कुत्रचित् ॥

२,११.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 252, Verse 2

इन्द्रियाणि कुतो यान्ति ह्यस्पृश्यः स कथं भवेत् ।

क्व कर्माणि कृतानीह कथं भुङ्क्ते प्रसर्पति ॥

२,११.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 252, Verse 3

प्रसादं कुरु मे मोहं छेत्तुमर्हस्यशेषतः ।

काश्यपोऽहं सुरश्रेष्ठ विनतागर्भ संभवः ।

यमलोकं कथं यान्ति विष्णुलोकं च मानवाः ॥

२,११.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 252, Verse 4

श्रीकृष्ण उवाच ।

परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च ॥

२,११.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 252, Verse 5

अरण्ये निर्जने देशे जायते ब्रह्मराक्षसः ।

हीनजातौ प्रजायेत रत्नानामपहारकः ॥

२,११.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 252, Verse 6

यंयं काममभिध्यायेत्स तल्लिङ्गोऽभिजायते ।

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ॥

२,११.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 252, Verse 7

न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ।

वाक्चक्षुर्नासिका कर्णौ गुदं मूत्रस्य सञ्चरः ॥

२,११.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 252, Verse 8

अण्डजादिकजन्तूनां छिद्राण्येतानि सर्वशः ।

आनाभेर्मूर्धपर्यन्तमूर्ध्वच्छिद्राणि चाष्ट वै ॥

२,११.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 252, Verse 9

सन्तः सुकृतिनो मर्त्या ऊर्ध्वच्छिद्रेण यान्ति वै ।

मृताहे वार्षिकं यावद्यथोक्तविधिना खग ॥

२,११.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 252, Verse 10

कुर्यात्सर्वाणि कर्माणि निर्धनोऽपि हि मानवः ।

देहे यत्र वसेज्जन्तुस्तत्र भुङ्क्ते शुभाशुभम् ॥

२,११.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 252, Verse 11

मनोवाक्कायजान्दोषांस्तथां भुङ्क्ते खगेश्वर ।

मृतः स सुखमाप्नोति मायापाशैर्न बध्यते ।

पाशबद्धो नरो यस्तु विकर्मनिरतो भवेत् ॥

२,११.११ ॥