Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251

Containing 96 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 1

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे राजकृतवृषोत्सर्गक्रियादिनिरूपणं नाम नवमोऽध्यायः श्रीगरुडमहापुराणम्- १० गरुड उवाच ।

सपिण्डीकरण जाते आब्दिके च स्वकर्मभिः ।

देवत्वं वा मनुष्यत्वं पक्षित्वं वाप्नुयुर्नराः ॥

२,१०.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 2

तेषां विभिन्नाहाराणां श्राद्धं वै तृप्तिदं कथम् ।

यदप्यन्यैर्द्विजैर्भुक्तं हूयते यदि वानले ॥

२,१०.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 3

शुभाशुभात्मकैः प्रेतस्तद्दत्तं भुज्यते कथम् ।

श्राद्धस्यावश्यकत्वन्तु आमावास्यादिषु श्रुतम् ॥

२,१०.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 4

श्रीभगवानुवाच ।

प्रेतानां श‍ृणु पक्षीन्द्र यथा श्राद्धन्तु तृप्तिदम् ।

देवो यदपि जातोऽयं मनुष्यः कर्मयोगतः ॥

२,१०.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 5

तस्यान्नममृतं भूत्वा देवत्वेऽप्यनुयाति च ।

गान्धव्ये भोगरूपेण पशुत्वे च तृणं भवेत् ॥

२,१०.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 6

श्राद्धं हि वायुरूपेण नागत्वेऽप्यनुगच्छति ।

फलं भवति पक्षित्वे राक्षसेषु तथामिषम् ॥

२,१०.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 7

दानवत्वे तथा मांसं प्रेतत्वेरुधिरं तथा ।

मनुष्यत्वेऽन्नपानादि बाल्ये भोगरसो भवेत् ॥

२,१०.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 8

गरुड उवाच ।

कथं कव्यानि दत्तानि हव्यानि च जनैरिह ।

गच्छन्ति पितृलोकं वा प्रापकः कोऽत्र गद्यते ॥

२,१०.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 9

मृतानामपि जन्तूनां श्राद्धमाप्यायनं यदि ।

निर्वाणस्य प्रदीपस्य तैलं संवर्धयेच्छिखाम् ॥

२,१०.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 10

मृताश्च पुरुषाः स्वामिन्स्वकर्मजनितां गतिम् ।

गाहन्तः के कथं स्वस्य सुतस्य श्रेय आप्नुयुः ॥

२,१०.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 11

श्रीभगवानुवाच ।

श्रुतेः प्रत्यक्षतस्तार्क्ष्य प्रामाण्यं बलवत्तरम् ।

श्रुत्या तुः बोधितार्थस्य पीयूषत्वादिरूपता ॥

२,१०.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 12

नामगोत्रं पितॄणां वै प्रापकं हव्यकव्ययोः ।

श्राद्धस्य मन्त्रास्तद्वत्तु प्रापकाश्चैव भक्तितः ॥

२,१०.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 13

अचेतनानि चैतानि प्रापयन्ति कथन्त्विति ।

सुपर्ण नावगन्तव्यं प्रापकं वच्मि तेऽपरम् ॥

२,१०.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 14

अग्निष्वात्तादयस्तेषा माधिपत्ये व्यवस्थिताः ।

काले न्यायागतं पात्रे विधिना प्रतिपादितम् ॥

२,१०.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 15

अन्नं नयन्ति तत्रैते जन्तुर्यत्रावतिष्ठते ।

नाम गोत्रञ्च मन्त्राश्च दत्तमन्नं नयन्ति ते ॥

२,१०.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 16

अपि योनिशतं प्राप्तांस्तांस्तृप्तिरुपतिष्ठति ।

तेषां लोकान्तरस्थानां विविधैर्नामगोत्रकैः ॥

२,१०.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 17

अपसव्यं क्षितौ दर्भे दत्ताः पिण्डास्त्रयस्तु वै ।

यान्ति तांस्तर्पयन्त्येवं प्रेतस्थानस्थितान्पितॄन् ॥

२,१०.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 18

अप्राप्तयातनास्थानाः श्रेष्ठा ये भुवि पञ्चधा ।

नानारूपास्तु जाता ये तिर्यग्योन्यादिजातिषु ॥

२,१०.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 19

यदाहारा भवन्त्येते पितरो यत्र योनिषु ।

तासुतासु तदाहारः श्राद्धा अवतिष्ठति ॥

२,१०.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 20

यथा गोषु प्रनष्टासु वत्सो विन्दति मातरम् ।

तथान्नं नयते विप्र जन्तुर्यत्रावतिष्ठते ॥

२,१०.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 21

पितरः श्राद्धमोक्तारो विश्वेर्देवैः सदा सह ।

एते श्राद्धं सदा भुक्त्वा पितॄन्सन्तर्पयन्त्यतः ॥

२,१०.२१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 22

वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः ।

प्रीणयाते मनुष्याणां पितॄञ्श्राद्धेषु तर्पिताः ॥

२,१०.२२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 23

आत्मानं गुर्विणी गर्भमपि प्रीणाति वै यथा ।

दोहदेन तथा देवाः श्राद्धैः स्वांश्च पितॄन्नृणाम् ॥

२,१०.२३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 24

हृष्यन्ति पितरः श्रुत्वा श्राद्धकालमुपस्थितम् ।

अन्योन्यं मनसा ध्यात्वा सम्पतन्ति मनोजवम् ॥

२,१०.२४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 25

ब्राह्मणैः सह चाश्रन्ति पितरो ह्यन्तरिक्षगाः ।

वायुभूताश्च तिष्ठन्ति भुक्त्वा यान्ति परां गतिम् ॥

२,१०.२५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 26

निमन्त्रितास्तु ये विप्राः श्राद्धपूर्वदिनेः खग ।

प्रविश्य पितरस्तेषु भुक्त्वा यान्ति स्वमालयम् ॥

२,१०.२६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 27

श्राद्धकर्त्रा तु यद्येकः श्राद्धे विप्रो निमन्त्रितः ।

उदरस्थः पिता तस्य वामपार्श्वे पितामहः ॥

२,१०.२७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 28

प्रपितामहो दक्षिणतः पृष्ठतः पिण्डभक्षकः ।

श्राद्धकाले यमः प्रेतान्पितॄंश्चापि यमालयात् ॥

२,१०.२८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 29

विसर्जयति मानुष्ये निरयस्थांश्च काश्यप ।

क्षुधार्ताः कीर्तयन्तश्च दुष्कृतञ्च स्वयङ्कृतम् ॥

२,१०.२९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 251, Verse 30

काङ्क्षन्ति पुत्रपौत्रेभ्यः पायसं मधुसंयुतम् ।

तस्मात्तांस्तत्र विधिना तर्पयेत्पायसेन तु ॥

२,१०.३० ॥