पूर्वखण्डः (आचारकाण्डः), अध्याय 25, Verse 1
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे त्रिपुरादिपूजानिरूपणं नम्चतुर्विशोऽध्यायः श्रीगरुडमहापुराणम्- २५ सूत उवाच ।
ऐं क्रीं श्रीं स्फें क्षैं अनन्तशक्तिपादुकां पूजयामि नमः ॥
१,२५.१ ॥
Containing 5 sacred Sanskrit shlokas with multi-author commentaries and translations.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे त्रिपुरादिपूजानिरूपणं नम्चतुर्विशोऽध्यायः श्रीगरुडमहापुराणम्- २५ सूत उवाच ।
ऐं क्रीं श्रीं स्फें क्षैं अनन्तशक्तिपादुकां पूजयामि नमः ॥
१,२५.१ ॥
ऐं श्रीं फ्रैं क्षैं आधारशक्तिपादुकां पूजयामि नमः ।
ॐ ह्रं कालाग्निरुद्रपादुकां पूजयामि नमः ॥
१,२५.२ ॥
ॐ ह्रीं हुं हाटकेश्वरदेवपादुकां पूजयामि नमः ।
ॐ ह्रीं शेषभट्टारकपादुकां पूजयामि नमः ॥
१,२५.३ ॥
ॐ ह्रीं श्रीं पूथिवीतत्सवर्णभुवनद्वीपसमुद्रदिशामनन्ताख्यमासनं पद्मासनं पूजयामि नमः ॥
१,२५.४ ॥
ह्रीं श्रीं निवृत्त्यादि कला पृथिव्यादितत्त्व मनन्तादिभुवनमोङ्कारादिवर्णम् ।
हकारादिनवात्मकपदः सद्योदातादिमन्त्रः ह्रां हृदयाद्यङ्गः ।
एवं मन्त्रमहेश्वर सिद्धविद्यात्मकः परामृतार्णवः सर्वभूतो दिक्समस्तषडङ्गः सदाशिवार्णवपयः पूर्णोदधिपक्षश्रीमानास्पदात्मकः विद्योमापूर्णज्ञत्वकर्तृत्वलक्षणज्येष्ठाचक्ररुद्रशक्त्यात्मककर्णि कः ।
नवशक्तिशिवादिभिर्मूलमण्डलत्रयकुजात्मकोत्पन्नापद्मासनपादुकां पूजयामि नमः ॥
१,२५.५ ॥