Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249

Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 1

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे श्रीकृष्णगरुडसंवादे प्रेतकल्पे पञ्चप्रेतोपाख्यानं नाम सप्तमोऽद्यायः श्रीगरुडमहापुराणम्- ८ गरुड उवाच ।

स्वामिन्कस्याधिकारोऽत्र सर्व एवौर्ध्वदेहिके ।

क्रियाः कतिविधाः प्रोक्ता वदैतत्सर्वमेव मे ॥

२,८.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 2

श्रीकृष्ण उवाच ।

पुत्रः पौत्रः प्रपौत्रो वा तद्भ्राता भ्रातृसन्ततिः ।

सपिण्डसन्ततिर्वापि क्रियार्हाः खग ज्ञातयः ॥

२,८.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 3

तेषामभावे सर्वेषां समानोदकसन्ततिः ।

कुलद्वयेऽपि चोच्छिन्ने स्त्रीभिः कार्याः क्रियाः खग ॥

२,८.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 4

इच्छयोच्छिन्नबन्धश्च कारयेदवनीपतिः ।

पूर्वाः क्रिया मध्यमाश्च तथा चैवोत्तराः क्रियाः ॥

२,८.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 5

प्रतिसंवत्सरं पक्षिन्नेकोद्दिष्टविधानतः ।

श्राद्धं तत्र प्रकर्तव्यं फलं तस्य श‍ृणुष्व मे ॥

२,८.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 6

ब्रह्मेन्द्ररुद्रनासत्यसूर्याग्निवसुमारुतान् ।

विश्वेदेवान्पितृ गणान्वयांसि मनुजान्पशून् ॥

२,८.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 7

सरीसृपान्मातृगणान्यच्चान्यद्भूतसंज्ञितम् ।

श्राद्धं श्रद्धान्वितः कुर्वन्प्रीणयत्यखिलं जगत् ॥

२,८.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 8

ते तृप्तास्तर्पयन्त्येनं पुत्रदारधनैस्तथा ।

अधिकारः क्रियाभेदः समासात्ते निरूपितः ॥

२,८.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 9

गरुड उवाच ।

उक्तेष्वेकोऽपि चेन्न स्यादधिकारी सुरोत्तम ।

कर्तव्यं किं तदा विष्णो पुरुषेण विजानता ॥

२,८.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 10

श्रीकृष्ण उवाच ।

अधिकारो यदा नास्ति यदि नास्ति च निश्चयः ।

जीविते सति जीवाय दद्याच्छ्राद्धंस्वयं नरः ॥

२,८.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 11

कृतोपवासः सुस्नातः कृष्णासङ्गः समाहितः ।

कर्तारमथ भोक्तारं विष्णुं सर्वेश्वरं यजेत् ॥

२,८.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 12

सदक्षिणाश्च सतिलास्तिस्त्रश्च जलधेनवः ।

निवेदयेत्पितृभ्यश्च स्वधेति सुसमाहितः ॥

२,८.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 13

अग्नये कव्यवाहनाय स्वधा नम इति स्मरन् ।

सोमायत्वा पितृमते स्वधा नम इति स्मरन् ॥

२,८.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 14

दक्षिणेन तु दद्याच्च तृतीयां दक्षिणायुताम् ।

यमायाङ्गिरसे चाथ स्वधा नम इति स्मरन् ॥

२,८.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 15

तयोर्मध्ये तु निः क्षिप्य विप्रान्समन्त्र्य भो जयेत् ।

प्रथमामुत्तरे न्यस्य द्वितीयां दक्षिणे न्यसेत् ॥

२,८.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 16

मध्ये तृतीयां विन्यस्य पश्चादावाहनादिकम् ।

आवाहनादिना पूर्वं विश्वेदेवान्प्रपूज्यच ॥

२,८.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 17

वसुभ्यस्त्वामहं विप्र रुद्रेभ्यस्त्वामहं ततः ।

सूर्येभ्यस्त्वामहं विप्र भोजयामीति तान्वदेत् ॥

२,८.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 18

आवाहनादिकं शेषं कुर्याच्च पितृशेषवत् ।

साम्यां धेनुं ततो दद्याद्वसूद्देशं द्विजाय तु ॥

२,८.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 19

आग्नेय्यां चाथ रौद्राय याम्यां सूर्यद्विजाय तु ।

विश्वेभ्यश्चाथ देवेभ्यस्तिलपात्रं निवेदयेत् ॥

२,८.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 20

स्वस्तीत्येव तथाक्षय्यं जलं दत्त्वाथ तान्द्विजान् ।

विसर्जयेत्स्मरन्विष्णुं देवमष्टाक्षरं विभुम् ॥

२,८.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 21

ततः कामं कुलेशानीं शिवं नारायणं स्मरेत् ।

चतुर्दश्यां ततो गच्छेद्यथाप्राप्तां सरिद्वराम् ॥

२,८.२१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 22

वस्त्राणि लोहखण्डानि जितं त इति संजपन् ।

दक्षिणाभिमुखो वह्निं ज्वालयेत्तत्र च स्वयम् ॥

२,८.२२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 23

पञ्चाशता कुशैर्ब्राह्मीं कृत्वा प्रतिकृतिं दहेत् ।

हुत्वा श्माशानिकं होमं पूर्णाहुत्यन्तमेव हि ॥

२,८.२३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 24

निरग्रिमथ वा भूमिं यमं रुद्रञ्च संस्मरेत् ।

हुत्वा प्राधानिके स्थाने पश्चादावाहयेच्च तम् ॥

२,८.२४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 25

श्रपयेच्चापरं वह्नौ मुद्गमिश्रं चरुं ततः ।

तिलतण्डुलमिश्रञ्च द्वितीयं सपवित्रकम् ॥

२,८.२५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 26

ॐ पृथिव्यै नमस्तुभ्यमिति चैकं निवेदयेत् ।

ॐ यमाय नमश्चेति द्वितीयं तदनन्तरम् ॥

२,८.२६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 27

ॐ नमश्चाथ रुद्राय श्माशानपतये नमः ।

ततो दीप्ते समिद्धेऽग्नौ भूमौ प्रकृतिदारुणे ॥

२,८.२७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 28

सप्तभ्यो यमसंज्ञेभ्यो दद्यात्सप्त जलाञ्जलीन् ।

यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥

२,८.२८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 29

वैवस्वताय कालाय सर्वप्राणहराय च ।

स्वधाकारनमस्कारप्रणवैः सह सप्तधा ॥

२,८.२९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 249, Verse 30

अमुकामुकगौत्रैतत्तुभ्यमस्तु तिलोदकम् ।

प्रदद्याद्दश पिण्डांस्तु अर्घपुष्पसमन्वितान् ॥

२,८.३० ॥