Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244

Containing 106 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 1

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे प्रतका(ख)ण्डे श्रीकृष्णगरुडसंवादे और्ध्वदेहिकविधिकर्मविपाकयोर्वर्णनं नाम द्वितीयोऽध्यायः श्रीगरुडमहापुराणम्- ३ सूत उवाच ।

एवमुत्साहितः पक्षी स्वरूपं निरयस्य तु ।

पप्रच्छनरकाण्येवं श्रुत्वा चोत्कूलितान्तरः ॥

२,३.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 2

गरुड उवाच ।

नरकाणां स्वरूपं मे वद येषु विकर्मिणः ।

पात्यन्ते दुःखभूयिष्ठास्तेषां भेदांश्च कीर्तय ॥

२,३.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 3

श्रीभगवानुवाच ।

नरकाणां सहस्राणि वर्तन्ते ह्यरुणानुज ।

शक्यं विस्तरतो नैव वक्तुं प्राधान्यतो ब्रुवे ॥

२,३.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 4

रौरवं नाम नरकं मुख्यं तद्वैनिबोध मे ।

रौरवे कूटसाक्षी तु याति यश्चानृती नरः ॥

२,३.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 5

योजनानां सहस्रे द्वे रौरवो हि प्रमाणतः ।

जानुमात्रप्रमाणं तु तत्र गर्तं सुदुस्तरम् ॥

२,३.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 6

तत्राङ्गारचयौघेन कृतं तद्धरणीसमम् ।

तत्राग्निना सुतीव्रेण तापिताङ्गारभूमिना ॥

२,३.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 7

तन्मध्ये पापकर्माणं विमुञ्चन्ति यमानुगाः ।

स दह्यमानस्तीव्रेण वह्निना परिधावति ॥

२,३.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 8

पदेपदे च पादोऽस्य स्फुट्यते शीर्यते पुनः ।

अहोरात्रेणोद्धरणं पादन्यासेन गच्छति ॥

२,३.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 9

एवं सहस्रं विस्तीर्णं योजनानां विमुच्यते ।

ततोऽन्यत्पापशुद्ध्यर्थं तादृङ्निरयमृच्छति ॥

२,३.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 10

रौरवस्ते समाख्यातः प्रथमो नरको मया ।

महारौरवसंज्ञं तु श‍ृणुष्व नरकं खग ॥

२,३.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 11

योजनानां सहस्राणि सन्ति पञ्च समन्ततः ।

तत्र ताम्रमयी भूमिरधस्तस्या हुताशनः ॥

२,३.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 12

तया तपन्त्या सा सर्वा प्रोद्यद्विद्युत्समप्रभा ।

विभाव्यते महारौद्रा पापिनां दर्शनादिषु ॥

२,३.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 13

तस्यां बद्धकराभ्यां च पद्भ्यां चैव यमानुगैः ।

मुच्यते पापकृन्मध्ये लुण्ठमानः स गच्छति ॥

२,३.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 14

काकैर्बकैर्वृकोलूकैर्मशकैर्वृश्चिकैस्तथा ।

भक्ष्यमाणैस्तथा रौद्रैर्गतो मार्गे विकृष्यते ॥

२,३.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 15

दह्यमानो गतमतिर्भ्रान्तस्तातेति चाकुलः ।

वदत्यसकृदुद्वग्नो न शान्तिमधिगच्छति ॥

२,३.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 16

एवं तस्मान्नरैर्मोक्षस्त्वतिक्रान्तैरवाप्यते ।

वर्षायुतायुतैः पापं यैः कृतं दुष्टबुद्धिभिः ॥

२,३.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 17

तथान्यस्तु ततो नाम सोऽतिशीतः स्वभावतः ।

महारौरववद्दीर्घस्तथान्धतमसा वृतः ॥

२,३.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 18

शीतार्तास्तत्र बध्यन्ते नरास्तमसि दारुणे ।

परस्परं समासाद्य परिरभ्याश्रयन्ति ते ॥

२,३.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 19

दन्तास्तेषां च भज्यन्ते शीतार्तिपरिकम्पिताः ।

क्षुतृषातिबलाः पक्षिन्नथ तत्राप्युपदवाः ॥

२,३.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 20

हिमखण्डवहो वायुभिनत्त्यस्थीनि दारुणः ।

मज्जासृगस्थिगलितमश्रन्त्यत्र क्षुधान्विताः ॥

२,३.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 21

आलिङ्ग्यमाना भ्राम्यन्ते परस्परसमागमे ।

एवं तत्रापि सुमहान्क्लेशस्तमसि मानवैः ॥

२,३.२१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 22

प्राप्यते शकुनिश्रेष्ठ यो बहूकृतसञ्चयः ।

निकृन्तन इति ख्यातस्ततोऽन्यो नरकोत्तमः ॥

२,३.२२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 23

कुलालचक्राणि तत्र भ्राम्यन्त्यविरतं खग ।

तेष्वापाष्ये निकृष्यन्ते कालसूत्रेण मानवाः ॥

२,३.२३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 24

यमानुमाङ्गुलिस्थेन आपादतलमस्तकम् ।

न चैषां जीवितभ्रंशो जायते पक्षिसत्तम ॥

२,३.२४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 25

छिन्नानि तेषां शतशः खण्डान्यैक्यं व्रजन्ति हि ।

एवं वर्षसहस्राणि भ्राम्यन्ते पापकर्मिणः ॥

२,३.२५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 26

तावद्यावदशेषं च तत्पापं संक्षयं गतम् ।

अप्रातष्ठं च नरकं श‍ृणुष्व गदतो मम ॥

२,३.२६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 27

तत्रस्थैर्नारकैर्दुःखमसह्यमनुभूयते ।

तान्येव तत्र चक्राणि घटीयन्त्राणि चान्यतः ॥

२,३.२७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 28

दुःखस्य हेतुभूतानि पापकर्मकृतां नृणाम् ।

चक्रेष्वारोपिताः केचिद्भाम्यन्ते तत्र मानवाः ॥

२,३.२८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 29

यावद्वर्षसहस्राणि न तेषां स्थितिरन्तरा ।

घटीयन्त्रेषु बद्वा ये बद्धा तोयवटी यथा ॥

२,३.२९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 244, Verse 30

भ्राम्यन्ते मानवा रक्तमुद्गिरन्तः पुनः पुनः ।

अन्त्रैर्मुखविनिष्क्रान्तैर्नेत्रैरन्त्रावलम्बिभैः ॥

२,३.३० ॥