Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243

Containing 92 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 1

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशाख्ये धर्मकाण्डे (प्रेतखण्डे) श्रीकृष्णगरुडसंवादे प्रश्रप्रपञ्चो नाम प्रथमोऽध्यायः श्रीगरुडमहापुराणम्- २ श्रीकृष्ण उवाच ।

साधु पृष्टं त्वया भद्र मानुषाणां हिताय वै ।

श‍ृणुष्वावहितो भूत्वा सर्वमेवौर्ध्वदैहिकम् ॥

२,२.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 2

सम्यग्विभेदरहितं श्रुतिस्मृतिसमुद्धृतम् ।

यन्न दृष्टं सुरैः सेन्द्रैर्योगिभिर्योगचिन्तकैः ॥

२,२.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 3

गुह्यद्गुह्यतरं तच्च नाख्यातं कस्यचित्क्वचित् ।

भक्तस्त्वं हि महाभाग वैनतेयं ब्रवीमि ते ॥

२,२.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 4

अपुत्रस्य गतिर्नास्तु स्वर्गो नैव च नैव च ।

येन केनाप्युपायेन कार्यं जन्म सुतस्य हि ॥

२,२.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 5

तारयेन्नरकात्पुत्त्रो यदि मोक्षो न विद्यते ।

स्कन्धः पुत्रेण कर्तव्यो ह्यग्निदाता च पौत्रकः ॥

२,२.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 6

तिलदर्भैश्च भूम्यां वै कुटी ऋतुमती भवेत् ।

पञ्च रत्नानि वक्त्रे तु येन जीवः प्ररोहति ॥

२,२.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 7

यदा पुष्पं प्रनष्टं हि क्व तदा गर्भधारणम् ।

आदराच्च ततो भूमौ येन गर्भं प्रधार्यते ॥

२,२.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 8

लेप्या तु गोमयैर्भूमिस्तिलान्दर्भान्विनिः क्षिपेत् ।

तस्यामेवातुरो मुक्तः सर्वं दहति किल्बिषम् ॥

२,२.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 9

दर्भतूली नयेत्स्वर्गमातुरस्य न संशयः ।

दर्भांस्तत्र क्षिपेद्वाथ तूलीगेन्दुकमध्यतः ॥

२,२.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 10

सर्वत्र वसुधापूता यत्र लेपो न विद्यते ।

यत्र लेपः स्थितस्तत्र पुनर्लेपेन शुध्यति ॥

२,२.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 11

यातुधानाः पिशाचाश्च राक्षसाः क्रूरकर्मिणः ।

अलेपं ह्यातुरं मुक्तं विशन्त्येते वियोनयः ॥

२,२.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 12

नित्यहोमस्तथा श्राद्धं पादशौचं द्विजे तथा ।

मण्डलेन विना भूम्यामातुरो मुच्यते न हि ॥

२,२.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 13

ब्रह्मा विष्णुश्च रुद्रश्च श्रीर्हुताशस्तथैव च ।

मण्डले चोपतिष्ठन्ति तस्मात्कुर्वीत मण्डलम् ॥

२,२.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 14

अन्यथा म्रियते वालो वृद्धस्तार्क्ष्ययुवाथवा ।

योन्यन्तरं न गच्छेत्स क्रीडते वायुना सह ॥

२,२.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 15

मिश्रितं लोहितामिश्रं तदेवं जन्म जीयते ।

तस्यैव वायुभूतस्य न श्राद्धं नोदकक्रिया ॥

२,२.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 16

मम स्वेदसमुद्भूतास्तिलास्तार्क्ष्य पवित्रकाः ।

असुरा दानवा दैत्या विद्रवन्ति तिलैस्तथा ॥

२,२.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 17

तिलाः श्वेतास्तिला कृष्णास्तिला गोमूत्रसंन्निभाः ।

दहन्तु ते मे पापानि शरीरेण कृतानि वै ॥

२,२.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 18

एक एव तिलो दत्तो हेमद्रोणतिलैः समः ।

तर्पणे दानहोमेषु दत्तो भवति चाक्षयः ॥

२,२.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 19

दर्भा रोमसमुद्भूतास्तिलाः स्वेदेषु नान्यथा ।

देवता दानवास्तृप्ताः श्राद्धेन पितरस्तथा ॥

२,२.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 20

प्रयोगविधिना ब्रह्मा विश्वं चाप्युपजीवनाम् ।

अपसव्यादितो ब्रह्मा पितरो देवदेवताः ॥

२,२.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 21

तेन ते पितरस्तृप्ता अपसव्ये कृते सति ।

दर्भमूले स्थितो ब्रह्मा मध्ये देवो जनार्दनः ॥

२,२.२१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 22

दर्भाग्रे शङ्करं विद्यात्त्रयो देवाः कुशे स्मृताः ।

विप्रा मन्त्राः कशा वह्निस्तुलसी च खगेश्वर ॥

२,२.२२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 23

नैते निर्माल्यतां यान्ति क्रियमाणाः पुनः पुनः ।

तुलसी ब्राह्मणा गावो विष्णुरेकादशी खग ॥

२,२.२३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 24

पञ्च प्रवहणान्ये भवाब्धौ मज्जतां नृणाम् ।

विष्णुरेकादशी गीता तुलसी विप्रधेनवः ॥

२,२.२४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 25

असारे दुर्गसंसारे षट्पदी मुक्तिदायिनी ।

तिलाः पवित्रमतुलं दर्भाश्चापि तुलस्यथ ॥

२,२.२५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 26

निवारयन्ति चैतानि दुर्गतिं यान्तमातुरम् ।

हस्ताभ्यामुद्धरेद्दर्भांस्तोयेन प्रोक्षयेद्भुवि ॥

२,२.२६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 27

मृत्युकाले क्षिपेद्दर्भान्करयोरातुरस्य च ।

दर्भैस्तु क्षिप्यते योऽसौ दर्भैस्तु परिवेष्टितः ॥

२,२.२७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 28

विष्णुलोके स वै याति मन्त्रहीनोऽपि मानवः ।

तूलीं कृत्वा कृतौ पादौ संस्थितौ क्षितिपृष्ठतः ॥

२,२.२८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 29

प्रायाश्चित्तं विशुद्धाग्नौ संसारेऽसारसागरे ।

गोमयेनोपलिम्पेत्तु दर्भास्तरणसंस्थिते ॥

२,२.२९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 243, Verse 30

यने दत्तेन दानेन सर्वं पापं व्यपोहति ।

लवणं तद्रसं दिव्यं सर्वकामप्रदं नृणाम् ॥

२,२.३० ॥