पूर्वखण्डः (आचारकाण्डः), अध्याय 242, Verse 1
ॐ इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशे आचारकाण्डे गरुडपुराणमाहात्म्यं नाम चत्वारिंशदुत्तरद्विशततमोऽध्यायः शुभं भूयात् ।
इति श्रीगारुडे प्रथमांश आचारकाण्डः समाप्तः ।
श्रीगरुडमहापुराणम् २ श्रीगणेशाय नमः ।
तत्रादिमे द्वितीयांशे प्रेतकाण्डो धर्मकाण्डनामारभ्यते ।
ॐ नमो भगवते वासुदेवाय ।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥
२,१.मंगलाचरणम् ॥।
धर्मन्दृढबद्धमूलो वेदस्कन्धः पुराणशाखाढ्यः ।
क्रतुकुसुमो मोक्षफलो मधुसूदनपादपो जयति ॥
२,१.१ ॥