पूर्वखण्डः (आचारकाण्डः), अध्याय 233, Verse 1
इति श्रीगारुडे महापुराणे मार्कण्डेयकृतं मृत्य्वष्टकस्तोत्रं नाम त्रयस्त्रिंशदुत्तरद्विशततमोऽध्यायः श्रीगरुडमहापुराणम्- २३४ सूत उवाच ।
वक्ष्येऽहमच्युतस्तोत्रं शृणु शौनक सर्वदम् ।
ब्रह्मा पृष्टो नारदाय यथोवाच तथा परम् ॥
१,२३४.१ ॥