पूर्वखण्डः (आचारकाण्डः), अध्याय 223, Verse 1
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे युगधर्मकथनं नाम त्रयोविंशत्यधिकद्विशततमोऽध्यायः श्रीगरुडमहापुराणम्- २२४ सूत उवाच ।
चतुर्युगसहस्रान्ते ब्राह्मो नैमित्तिको लयः ।
अनावृष्टिश्च कल्पान्ते जायते शतवार्षिकी ॥
१,२२४.१ ॥