Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 219

Containing 10 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 219, Verse 1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकोनविंशाधिकद्विशततमोऽध्यायः श्रीगरुडमहापुराणम्- २२० ब्रह्मोवाच ।

सपिण्डीकरणं वक्ष्ये पूर्णेऽब्दे तत्क्षयेऽहनि ।

कृतं सम्यग्यथाकाले प्रेतादेः पितृलोकदम् ॥

१,२२०.१ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 219, Verse 2

सपिण्डीकरणं कुर्यादपराह्ने तु पूर्ववत् ।

पितामहादिब्राह्मणनिमन्त्रणम् ।

ॐ पुरूरवार्द्रवसंज्ञकेभ्यो देवेभ्य एतदासनं नमः ।

वामपार्श्वे चासनदानम् ।

आवाहनम् ।

ततः पितामहप्रपितामहवृद्धप्रपितामहानां सपत्नीकानां श्राद्धमहं करिष्ये इत्यनुज्ञाग्रहणं-पात्रत्रयकरणं-पात्रोपरि कुशं दत्त्वा पात्रान्तरेण पिधाय अच्छिद्रावधारणान्तं परिसमाप्य तथैव पितुरपि सपत्नीकस्य प्रेतपदान्तनाम्ना श्राद्धकरणानुज्ञापनं देवपात्राच्छिद्रावधारणम् ॥

१,२२०.२ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 219, Verse 3

तत्परिसमाप्य पितामहप्रपितामहवृद्धप्रपितामहक्रमेण पात्राणां मनाक्चालनम् ।

उद्धाटनं कृत्वा--ॐ ये समानाः समनसः पितरो यमराज्ये ।

तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम् ।

ॐ ये समानाः समनसो जीवा जीवेषु मामकाः ।

तेषां श्रीर्मयि कल्पतामस्मिन्लोके शतं समाः ।

एतन्मन्त्रद्वयेन पितृपात्रोदकं पितामहप्रपितामहपात्रे वृद्धप्रपितामहपात्रं परित्यज्य पितामहप्रपितामहयोरुदकं पवित्रञ्च पितृपात्रे क्षिपेत् ॥

१,२२०.३ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 219, Verse 4

ततः पितृब्राह्मणहस्ते पात्रस्थपवित्रदानम् ।

पात्रस्थपुष्पेण शिरसः करपादार्चनं ब्राह्मणहस्तेऽन्य जलदानं--हस्ताभ्यां पात्रमुत्थाप्य ॐ या दिव्येति पठित्वा ॐ अमुकगोत्र मत्पितामह अमुकदेवशर्मन्सपत्नीक एष ते अर्घ्यः स्वधा ।

पितृपात्रेणैव पितामहब्राह्मणहस्ते स्तोकमर्घ्योदकं सपवित्रङ्गृहीत्वास्तोकमुदकं पिण्डसेचनार्थं पात्रान्तरेण पिधाय पितृब्राह्मणवामपार्श्व दक्षिणाग्रकुशोपरि पितृभ्यः स्तानमसीति अधोमुखपात्रस्थपनम् ॥

१,२२०.४ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 219, Verse 5

पितामहप्रपितामहवृद्धप्रपितामहेभ्यो गन्धादिदानमग्नौकरणम् ।

अवशिष्टान्नं प्रपितामहादिपात्रे क्षिपेत् ।

पितामहपात्राभिमन्त्रणपर्यन्तक्रमेण समाप्यापि ब्राह्मणपात्राभिमन्त्रणम् ।

अङ्गुष्ठनिवेशनं तिलविकरणं कृत्वा अमुकगोत्र एतत्ते अन्नं सघृतं सपानीयं सव्यञ्जनं प्रतिषिद्धवर्जितं ये चात्र त्वा मनुयाश्च त्वामनु तस्मै ते स्वधा इति ॥

१,२२०.५ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 219, Verse 6

ततो देवप्रभृतिभ्य अपोशानं दद्यात् ।

अतिथिप्राप्तौ अतिधिश्राद्धं कुर्यात् ।

अस्मिन्नवसरे विकिरणम् ।

पितामाहदौ प्रश्रं कृत्वा पितृब्राह्मणमों स्वदितं भवद्भिरिति प्रश्रः ।

ॐ अमुकगोत्र मत्पितः अमुकशर्मन्सपत्नीक एष ते पिण्डो ये चात्रत्वामनुयाश्च त्वामनु तस्मै स्वधेति पिण्डपात्रमच्छिद्रमस्तु ।

ततः सङ्कल्प सिद्धिवाचनं समाप्य पिण्डं द्विधा कृत्वा ये समानाः सुमनस इति मन्त्रद्वयं पठित्वा पितामहवृद्धप्रपितामहपात्रेषु क्षिपेत् ।

पिण्डेषु गन्धादिकं दत्त्वा पिण्डचालनम् ।

अतिथिब्राह्मणे स्वदितादिप्रश्रः ।

ब्राह्मणानामाचमनम् ।

भुक्तिक्रमेण ताम्बूलदानम् ।

सुप्रोक्षितमस्तु शिवा आपः सन्तु--वृद्धप्रपितामहक्रमेण ब्राह्मणहस्ते जलदानम् ।

गोत्रस्याक्षय्यमस्तु पितृब्राह्मणहस्ते उपतिष्टतामिति सतिजलदानम् ॥

१,२२०.६ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 219, Verse 7

अघोराः पितरः सन्तु अस्त्वित्युक्ते स्वधां वाचयिण्य इति पितामाहदिब्राह्मणानुज्ञापनम् ॥

१,२२०.७ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 219, Verse 8

ॐ वाच्यतां इत्युक्ते ॐ पितामहादिभ्यः स्वधोच्यताम् ।

अस्तु स्वधेत्युक्ते पितृब्राह्मण पितृभ्यः स्वधोच्यतामिति ।

अस्तु स्वधेत्युक्ते ॐ ऊर्जं वहन्तीरिति दक्षिणाभिमुखवारिधारात्यागः ।

ॐ विश्वेदेवा अस्मिन्यज्ञे प्रीयन्तामिति देवब्राह्मणहस्ते ॐ यवोदकदानम् ।

ॐ देवताभ्य इति त्रिर्जपः ॥

१,२२०.८ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 219, Verse 9

पिण्डपात्राणि चालयित्वा आचम्य पितामहादिभ्यो दक्षिणां दत्त्वा ततः पितृ ब्राह्मणाय आशिषो मे प्रदीयन्तामित्याशीः प्रार्थनम् ।

प्रतिगृह्यतामित्युक्ते दातारो नोऽभिवर्धन्तामिति पात्रमुत्तानं कृत्वा वाजे वाजेदृविसर्जनम् ।

अभिरण्यतामिति पितृब्राह्मणविसर्जनम् ॥

१,२२०.९ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 219, Verse 10

सपिण्डीकरणश्राद्धं व्यासप्रोक्तं मया तव ।

श्राद्धं विष्णुः श्राद्धकर्ता फलं श्राद्धादिकं हरिः ॥

१,२२०.१० ॥