Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 218

Containing 8 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 218, Verse 1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पार्वणश्राद्धकथनं नामाष्ट्रदशाधिकद्विशततमोऽध्यायः श्रीगरुडमहापुराणम्- २१९ ब्रह्मोवाच ।

नित्यश्राद्धं प्रवक्ष्यामि पूर्ववत्तद्विशेषवत् ।

ॐ अमुकगोत्राणामस्मत्पितृपितामहानां अमुकशर्मणां सपत्नीकानां श्राद्धं सिद्धान्नेन युष्मास्वहं करिष्ये ।

आसनादिकमत्र स्याद्विश्वेदेवाविवर्जितम् ॥

१,२१९.१ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 218, Verse 2

वृद्धिश्राद्धं प्रवक्ष्यामि पूर्ववत्तद्विशेषकम् ।

जातपुत्रमुखदर्शनादौ वृद्धि श्राद्धं पूर्वाभिमुखेषु दक्षिणोपवीतिषु सयवबदरकुशैर्देवतीर्थेन नमस्कारान्तेन दक्षिणोपचारेण कर्तव्यम् ॥

१,२१९.२ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 218, Verse 3

दक्षिणजानु गृहीत्वा अद्यास्मदीयामुकवृद्धौ अमुकगात्राणामस्मत्प्रपितामहीपितामहीमातॄणाममुकदेवीनाममुकगोत्राणां श्राद्धे कर्तव्ये वसुसत्यसंज्ञकानां विश्वेषां देवानां श्राद्धं सिद्धान्नेनयुष्मासु मया कर्तव्यमिति देवब्राह्मणामन्त्रणम् ।

ॐ करिष्यसीति तेनोक्त इत्थमेवापरदेवब्राह्मणामन्त्रणम् ॥

१,२१९.३ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 218, Verse 4

ततः अमुकवृद्धौ अमुकगोत्राया मत्प्रपितामह्या अमुकदेव्या नान्दीमुख्याः श्राद्धं सिद्धान्नेन युष्मासु मया कर्तव्यमिति प्रपितामहीब्राह्मणामन्त्रणम् ।

करिष्यामीति तेनोक्ते इत्थमेव प्रमातामह्यादिब्राह्माणमन्त्रणम् ॥

१,२१९.४ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 218, Verse 5

देवपितृसर्वदेवब्राह्मणं श्राद्धकरणानुज्ञापनम् ।

आसने ॐ विश्वेदेवास आगत श‍ृणुताम इमंर्ठ इवम् ।

तं बर्हिर्निषीदत ।

ॐ विश्वेदेवाः श‍ृणुतेमं इवं ये मे अन्तरिक्षे य उदद्यविष्ट ।

पे अग्निजिह्वा उतवा यदत्रा आसाद्यास्मिन्बर्हिषि मादयध्वम् ।

ॐ आगच्छन्तु इति विश्वेदेवावाहनं-गन्धादिदानम् ।

अच्छिद्रावधारणवाचनम् ॥

१,२१९.५ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 218, Verse 6

ततः प्रपितामहीप्रभृतीनामनुज्ञापनमासनदानं गन्धादिदानञ्च अच्छिद्रावधारणवाचनम् ।

इत्थं पितामह्याः मातुः ।

ततः प्रपितामहादीनां अनुज्ञापनम् ।

आसनमावाहनङ्गन्धादिदानं-वृद्धप्रमातामहादीनामनुज्ञापनादिकरणम् ।

ॐ वसुसत्यसंज्ञकेभ्यो देवेभ्य एतदन्नं सघृतं सपानीयं सव्यञ्जनं सवदरं सदधि प्रतिषिद्धवर्जितं नम इति अन्नसङ्कल्पनम् ।

ॐ अमुकगोत्रे ! मत्पितामहमुकदेवि नान्दीमुखि ! एतदन्नं सबदरं सदधि नमः ।

एवं मातामहप्रभातामहेभ्यः ॥

१,२१९.६ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 218, Verse 7

एकोद्दिष्टं पुरोऽवश्यं तद्विशेषं वदे श‍ृणु ।

प्रथमं निमन्त्रणं पादप्रक्षालनमासनम् ।

अद्य अमुकगोत्रस्य मत्पितुरमुकदेवशर्मणः प्रतिसांवत्सरिकमेकोद्दिष्टश्राद्धं सिद्धान्नेन युष्मास्वहं करिष्ये ।

श्राद्धकरणानुज्ञापनमासनं गन्धादिदानमन्नानुकल्पनम् ।

जप्यं निवीती ।

उत्तराभिमुखीभूयातिथिश्राद्धं कुर्यात् ॥

१,२१९.७ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 218, Verse 8

ततस्मृप्तिं ज्ञात्वा दक्षिणाभिमुखीवामोपवीती उच्छिष्टसमीपे अग्निदग्धा इति अन्नविकिरणम् ।

अमुकगोत्रमत्पितरमुकदेवशर्मन्नेतत्ते जलमवनेनिक्ष्व ये चात्र त्वामनुयाश्च त्वामनुतस्मै ते स्वधा इति रेखोपरि वारिधारादानम् ।

शेषं पूर्ववत् ॥

१,२१९.८ ॥