Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 214

Containing 8 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 214, Verse 1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे स्नानविधिविवरणं नाम चतुर्दशोत्तरद्विशततमोऽध्यायः श्रीगरुडमहापुराणम्- २१५ ब्रह्मोवाच ।

तर्पणं सम्प्रवक्ष्यामि देवादिपितृतुष्टिदम् ॥

१,२१५.१ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 214, Verse 2

ॐ मोदास्तृप्यन्ताम् ।

ॐ प्रमोदास्तृप्यन्ताम् ।

ॐ सुमुखास्तृप्यन्ताम् ।

ॐ दुर्मुखास्तृप्यन्ताम् ।

ॐ विघ्नास्तृप्यन्ताम् ।

ॐ विघ्नकर्तारस्तृप्यन्ताम् ।

ॐ छन्दांसि तृप्यन्ताम् ।

ॐ वेदास्तृप्यन्ताम् ।

ॐ ओषधयस्तृप्यन्ताम् ।

ॐ सनातनस्तृप्यताम् ।

ॐ इतराचार्यास्तृप्यन्ताम् ।

ॐ संवत्सरःसावयवस्तृप्यताम् ।

ॐ देवास्तृप्यन्ताम् ।

ॐ अप्सरसस्तृप्यन्ताम् ।

ॐ देवान्धकास्तृप्यन्ताम् ।

ॐ सागरस्तृप्यन्ताम् ।

ॐ नागास्तृप्यन्ताम् ।

ॐ पर्वतास्तृप्यन्ताम् ।

ॐ सरिन्मनुष्या यक्षास्तृप्यन्ताम् ।

ॐ रक्षांसि तृप्यन्ताम् ।

ॐ पिशाचास्तृप्यन्ताम् ।

ॐ सुपर्णास्तृप्यन्ताम् ।

ॐ भूतानि तृप्यन्ताम् ।

ॐ भूतग्रामाश्चतुर्विधास्तृप्यन्ताम् ।

ॐ दक्षस्तृप्यताम् ।

ॐ प्रचेतास्तृप्यताम् ।

ॐ मरीचिस्तृप्यताम् ।

ॐ आत्रिस्तृप्यताम् ।

ॐ अङ्गिरास्तृप्यताम् ।

ॐ पुलस्त्यस्तृप्यताम् ।

ॐ पुलहस्तृप्यताम् ।

ॐ क्रतुस्तृप्यताम् ।

ॐ नारदस्तृप्यताम्! ॐ भृगुस्तृप्यताम् ।

ॐ विश्वामित्रस्तृप्यताम् ।

ॐ रैवतस्तृप्यताम् ।

ॐ चाक्षुषस्तृप्यताम् ।

ॐ महातेजास्तृप्यताम् ।

ॐ वैवस्वतस्तृप्यताम् ।

ॐ ध्रुवस्तृप्यताम् ।

ॐ धवस्तृप्यताम् ।

ॐ अनिलस्तृप्यताम् ।

ॐ प्रभासस्तृप्यताम् ॥

१,२१५.२ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 214, Verse 3

नीवीती ।

ॐ सनकस्तृप्यताम् ।

ॐ सनन्दनस्तृप्यताम् ।

ॐ सनातनस्तृप्यताम् ।

ॐ कपिलस्तृप्यताम् ।

ॐ आसुरिस्तृप्यताम् ।

ॐ वोढुस्तृप्यताम् ।

ॐ पञ्चशिखस्तृप्यताम् ।

ॐ मनुष्याणां कव्यवाहस्तृप्यताम् ।

ॐ अनलस्तृप्यन्ताम् ।

ॐ सोमस्तृताम् ।

ॐ यमस्तृप्यताम् ।

ॐ अर्यमातृप्यताम् ॥

१,२१५.३ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 214, Verse 4

प्राचीनावीती ।

ॐ अग्निष्वात्ताः पितरस्तृप्यन्ताम् ।

ॐ सोमपाः पितरस्तृप्यन्ताम् ।

ॐ बर्हिषदः पितरस्तृप्यन्ताम् ।

यमाय नमः ।

धर्मराजाय नमः ।

मृत्यवे नमः ।

अन्तकाय नमः ।

वैवस्वताय नमः ।

कालाय नमः ।

सर्वभूतक्षयाय नमः ।

औदुम्बराय नमः! दध्नाय नमः ।

नीलाय नमः ।

परमेष्ठिने नमः ।

वृकोदराय नमः ।

चित्राय नमः ।

चित्रगुप्ताय नमः ॥

१,२१५.४ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 214, Verse 5

ब्रह्मादिस्तम्बपर्यन्तं जगत्तृप्यतु ।

ॐ पितृभ्यः स्वधा नमः ।

ॐ पितामहेभ्यः स्वधा नमः ।

ॐ प्रपितामहेभ्यः स्वधा नमः ।

ॐ मातृभ्यः स्वधा नमः ।

ॐ पितामहीभ्यः स्वधा नमः ।

ॐ प्रपितामहीभ्यः स्वधा नमः ।

ॐ मातामहेभ्यः स्वधा नमः ।

ॐ प्रमातामहेभ्यः स्वधा नमः ।

ॐ वृद्धप्रमातामहेभ्यः स्वधा नमः तृप्यतामिति ।

उदीरतामवर उत्परासो उन्मध्यमाः पितरः सोम्यासः ।

असुंय ईयुरवृका ऋतज्ञास्तेनोऽवन्तुपितरोहवेषु ।

गोत्रोच्चारणेन प्रथमाञ्जलिः पितुः ।

ॐ अङ्गिरसो नः पितरोदृ- ।

अथर्वाणोभृगवःदृ - ।

तेषां वयं सुमतौ यज्ञियानां अपि भद्रे सौमनसे स्याम ।

ॐ आयन्तु नः पितरः सौम्यासोग्निष्वात्ताः पथिभिर्देवयानैः ।

अस्मिन्यज्ञे स्वधया मदन्तोऽधिब्रुवन्तु तेऽवन्त्वस्मान् ॥

१,२१५.५ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 214, Verse 6

ॐ ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्नुतं स्वधा स्थ तर्पयत मे पितॄन् ।

ॐ पितृभ्यः स्वधा नमः ।

ॐ पितामहेभ्यः स्वधा नमः ।

ॐ प्रपितामहेभ्यः स्वधान नमः ।

ॐ मातामहेभ्यः स्वधा नमः ।

ॐ प्रमातामहेभ्यः स्वधा नमः ।

ॐ वृद्धप्रमातामहेभ्यः स्वधा नमः ।

पितामहस्यदृ ।

ॐ अक्षन्पितरो अमीमदन्त पितरो अमी तृप्यन्तः पितरः शुं(स्व) धध्वं पिबेह पितरोऽपि वानत्रयांश्च विश्रयांश्च भवनपवित्रत्वा रथपति ते जातवेदाः स्वधाभिर्यज्ञं सुकृतं जुपस्व? ।

ॐ णदुवाता ऋतायते मधु क्षरन्ति सिन्धवः ।

माध्वीर्नः सन्त्वोषधीर्मधुनक्तमुतोषसो मधुमत्पार्थिवं रजः ।

मधु द्यौरस्तु नः पिता मधु मान्नो वनस्पतिर्मधुभामस्तु सूर्यो माध्वीर्गावो भवन्तु नः ॥

१,२१५.६ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 214, Verse 7

प्रपितामहस्याञ्जलिदानम् ।

ॐ नमो वः पितरो रसाय नमो वः पितरः शुष्माय नमो वः पितरो जीवाय नमो वः पितरः स्वधायै नमो वः पितरो घोराय नमो वः पितरो मन्यवे ।

नमो वः पितरो गृहान्न पितरो दत्तः ।

नमो वः पितरो दध्मे तद्वः पितरो वासः ।

मातामहानां त्रिरञ्जलिदृ ।

ततो मात्रादीनान्दृ ॥

१,२१५.७ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 214, Verse 8

ये चास्माकं कुले जाता अपुत्रा गोत्रिणो मृताः ।

ते तृप्यन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् ॥

१,२१५.८ ॥