पूर्वखण्डः (आचारकाण्डः), अध्याय 210, Verse 1
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ऽर्द्धसमवृत्तलक्षणादिनिरूपणं नाम दशोत्तरद्विशततमोऽध्यायः श्रीगरुडमहापुराणम्- २११ सूत उवाच ।
प्रथमोऽष्टाक्षरैः पादो द्वितीयो द्वादशाक्षरैः ।
तृतीयः षोडशार्णैश्च विंशद्वर्णैश्चतुर्थकः ॥
१,२११.१ ॥