पूर्वखण्डः (आचारकाण्डः), अध्याय 197, Verse 1
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सप्तनवत्यधिकशततमोऽध्यायः श्रीगरुडमहापुराणम्- १९८ भैरव उवाच ।
नित्यक्लिन्नामथो वक्ष्ये त्रिपुरां भुक्तिमुक्तिदाम् ।
ॐ ह्रीं आगच्छ देवि ऐं ह्रीं ह्रीं रेखाकारणम् ।
ॐ ह्रीं क्लेदिनी भं नमः मदनक्षोभिणा तथा ।
ऐ यं यं क्रीं वा गुणरेखया ह्रीं मदनान्तरे च ।
ऐं ह्रीं ह्रीं च निरञ्जना वागति मदनान्तरेखे खनेत्रावलीति च ।
वेगवति महाप्रेतासनाय च पूजयेत् ।
ॐ ह्रीं क्रैं नैं क्रैं नित्यं मदद्रवे क्रीं नमः ।
ऐं ह्रीं त्रिपुरायै नमः ।
ॐ ह्रीं क्रीं पश्चिमवक्त्रं ॐ ऐं ह्रीं ह्रीं च तथोत्तरम् ।
ऐं ह्रीं दक्षिणमूर्ध्वंवक्त्रं तु पश्चिमम् ।
ॐ ह्रीं पाशाय क्रीं अङ्कुशाय ऐं कपालाय नमः ।
आद्यं भयं ऐं ह्रीं च तथा शिरः तथा शिखायै कवचे ।
ऐं ह्रीं क्रीं अस्त्रायफट् ॥
१,१९८.१ ॥