ॐ अनाद्यन्त जगद्बीज पद्मनाभ नमोऽस्तु ते ।
ॐ कालाय स्वाहा ।
ॐ कालपुरुषाय स्वाहा ।
ॐ कृष्णाय स्वाहा ।
ॐ कृष्णरूपाय स्वाहा ।
ॐ चण्डाय स्वाहा ।
ॐ चण्डरूपाय स्वाहा ।
ॐ प्रचण्डाय स्वाहा ।
ॐ प्रचण्डरूपाय स्वाहा ।
ॐ सर्वाय स्वाहा ।
ॐ सर्वरूपाय स्वाहा ।
ॐ नमो भुवनेशाय त्रिलोकधात्रे इह विटि सिविटि सिविटि स्वाहा ।
ॐ नमः अयोखेतये ये ये संज्ञापय var संज्ञायापात्र दैत्यदानवयक्षराक्षसभूतपिशाचकूष्माण्डान्तापस्मारकच्छर्दनदुर्धराणा- मेकाहिकद्व्याहिकत्र्याहिकचातुर्थिक मौहूर्तिकदिनज्वररात्रिज्वरसन्ध्याज्वरसर्वज्वरादीनां लूताकीटकण्टकपूतनाभुजङ्गस्थावरजङ्गमविषादीनामिदं शरीरं मम पथ्यं त्वं कुरु स्फुट स्फुट स्फुट प्रकोट लफट विकटदंष्ट्रः पूर्वतो रक्षतु ।
ॐ है है है है दिनकर्सहस्रकालसमाहतो जय पश्चिमतो रक्ष ।
ॐ निवि निवि प्रदीप्तज्वलनज्वालाकार महाकपिल उत्तरतो रक्ष ।
ॐ विलि विलि मिलि मिलि गरुडि गरुडि गौरीगान्धारीविषमोहविषमविषमां महोहयतु स्वाहा दक्षिणतो रक्ष ।
मां पश्य सर्वभूतभयोपद्रवेभ्यो रक्ष रक्ष जय जय विजय तेन हीयते रिपुत्रासाहङ्कृतवाद्यतोभय रुदय वोभयोऽभयं दिशतु च्युतः तदुदरमखिलं विशन्तु युगपरिवर्तसहस्रसङ्ख्येयोऽस्तमलमिव प्रविशन्ति रश्मयः ।
वासुदेवसङ्कर्षणप्रद्युम्नश्चानिरुद्धकः ।
सर्वज्वरान्मम घ्नन्तु विष्णुर्नारायणो हरिः ॥
१,१९४.२९ ॥