पूर्वखण्डः (आचारकाण्डः), अध्याय 184, Verse 1
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैद्यशास्त्रे चतुरशीत्यधिकशततमोऽध्यायः श्रीगरुडमहापुराणम्- १८५ हरिरुवाच ।
आं गणपतये इति अयं गणपतेर्न्मन्त्रो धनविद्याप्रदायकः ॥
१,१८५.१ ॥
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैद्यशास्त्रे चतुरशीत्यधिकशततमोऽध्यायः श्रीगरुडमहापुराणम्- १८५ हरिरुवाच ।
आं गणपतये इति अयं गणपतेर्न्मन्त्रो धनविद्याप्रदायकः ॥
१,१८५.१ ॥
इममष्टसहस्रञ्च जप्त्वा बद्ध्वा शिखां ततः ।
व्यवहारे जयः स्याच्च शतं जापान्नृणां प्रियः ॥
१,१८५.२ ॥
तिलानां तु घृताक्तानां कृष्णानां रुद्र होमयेत् ।
अष्टोत्तरसहस्रन्तु राजा वश्यस्त्रिभिर्दिनैः ॥
१,१८५.३ ॥
अष्टम्याञ्च चतुर्दश्यामुपोष्याभ्यर्च्य विघ्नराट् ।
तिलाक्षतानां जुहुयादष्टोत्तरसहस्रकम् ।
अपाजितः स्याद्युद्धे च सर्वे तञ्च सिषेविरे ॥
१,१८५.४ ॥
जप्त्वा चाष्टसहस्रन्तु ततश्चाष्टशतेन हि ।
शिखां बद्ध्वा राजकुले व्यवहारे जयो भवेत् ॥
१,१८५.५ ॥
ह्रीङ्कारं सविसर्गञ्च प्रातः काले नरस्तु यः ।
स्त्रीणां ललाटे विन्यस्य वशतां नयति ध्रुवम् ॥
१,१८५.६ ॥
सुसमाहितचित्तेन विन्यस्य प्रमदालये ।
सोत्कामां कामिनीं कुर्यान्नात्र कार्या विचारणा ॥
१,१८५.७ ॥
जुहुयादयुतं यस्तु शुचिः प्रयतमानसः ।
दृष्टिमात्रे सदा तस्य वश्यमायान्ति योषितः ॥
१,१८५.८ ॥
मनः शिलापत्रकञ्च सगोरोचनकुङ्कुमम् ।
कृत एभिश्च तिलके वश्यमायान्ति योषितः ॥
१,१८५.९ ॥
भृङ्गराट्सहदेवा च वचा श्वेतापराजिता ।
तेनैव तिलकं कृत्वा त्रैलोक्यं वशतां नयेत् ॥
१,१८५.१० ॥
गोरोचना मीनपित्तमाभ्याञ्च कृतवर्तिकः ।
यः पुमांस्तिलकं कुर्याद्वामहस्तकनिष्ठया ।
स करोति वशे सर्वं त्रैलोक्यं नात्र संशयः ॥
१,१८५.११ ॥
गोरोचना महादेव ! धातुशोणितभाविता ।
एतैर्वैतिलकं कृत्वा सा नरं यं निरीक्षते ।
तत्क्षणात्तं वशे कुर्या न्नात्र कार्या विचारणा ॥
१,१८५.१२ ॥
नागेश्वरञ्च शैलेयं त्वक्पत्रञ्च हरीतकी ।
चन्दनं कुष्ठसूक्ष्मैलारक्तशालिसमन्विता ॥
१,१८५.१३ ॥
एतैर्धूपो वशकरः स्मरबाणैः स्मारार्दनः ।
रतिकाले महादेव पार्वतीप्रिय शङ्कर ॥
१,१८५.१४ ॥
निजशुक्रं गृही त्वा तु वामहस्तेन यः पुमान् ।
कामिनीचरणं वामं लिंपेत्स स्यात्स्त्रियाः प्रियः ॥
१,१८५.१५ ॥
सैन्धवञ्च महादेव पारावतमलं मधु ।
एभिर्लिप्ते तु लिङ्गे वै कामिनीवशकृद्भवेत् ॥
१,१८५.१६ ॥
पुष्पाणि पञ्चरक्तानि गृहीत्वा यानि कानि च ।
तत्तुल्यञ्च प्रियङ्गुञ्च पेषयेदेकयोगतः ।
अनेन लिप्तलिङ्गस्य कामिनीवशतामियात् ॥
१,१८५.१७ ॥
हयगन्धा च मञ्जिष्ठा मालतीकुसुमानि च ।
श्वेतसषर्प एतैश्च लिप्तलिङ्गः स्त्रियाः प्रियः ॥
१,१८५.१८ ॥
मूलन्तु काकजङ्घाया दुग्धपीतन्तु शोषनुत् ।
अश्वगन्धानागबलागुडमाषनिषेविणः ।
रूपं भवेद्यथा तद्वन्नवयौवनचारिणाम् ॥
१,१८५.१९ ॥
लौहचूर्णसमायुक्तं त्रिफलाचूर्णमेव वा ।
मधुना सेवितं रुद्र परिणामाख्यशूलनुत् ॥
१,१८५.२० ॥
क्वथितोदकपानन्तु शम्बूकक्षारकं तथा ।
मृगशृङ्गं ह्यग्निदग्धं गव्याज्येन समन्वितम् ।
पीत हृत्पृष्ठशूलानां भवेन्नाशकरं शिव ॥
१,१८५.२१ ॥
हिङ्गु सौवर्चलं शुण्ठी वृषध्वज महौषधम्? ।
एभिस्तु क्वथितं वारि पीतं वै सर्वशूलनुत् ॥
१,१८५.२२ ॥
अपामार्गस्य वै मूलं सामुद्रलवणान्वितम् ।
आस्वादि तमजीर्णस्य शूलस्य स्याद्विमर्दनम् ॥
१,१८५.२३ ॥
वटरोहाङ्कुरो रुद्र तण्डुलोदकघर्षितः ।
पीतः सतक्रोऽतीसारं क्षयं नयति शङ्कर ॥
१,१८५.२४ ॥
अङ्कोटमूलं कर्षार्धं पिष्टं तण्डुलवारिणा ।
सर्वातीसारग्रहणीं पीतं हरति भूतप ॥
१,१८५.२५ ॥
मरीचशुण्ठिकुटजत्वक्चूर्णञ्च गुडान्वितम् ।
क्रमात्तद्द्विगुणं पीतं ग्रहणीव्याधिनाशनम् ॥
१,१८५.२६ ॥
श्वेतापराजितामूलं हरिद्रासिक्थतण्डुलाः ।
अपामार्गत्रिकटुकमेषाञ्च वटिका शिव ।
विषूचिकामहाव्याधिं हरत्येव न संशयः ॥
१,१८५.२७ ॥
त्रिफलागुरु भूतेश शिलाजतु हरीतकी ।
एकैकमेषां चूर्णन्तु मधुना च विमिश्रितम् ।
पीतं सर्वञ्च मेहन्तु क्षयं नयति शङ्कर ॥
१,१८५.२८ ॥
अर्कक्षीरप्रस्थमेकं तिलतैलं तथैव च ।
मनः शिलामरीचानां सिन्दूरस्य पलं पलम् ॥
१,१८५.२९ ॥
चूर्णं कृत्वा ताम्रपात्रे त्वातपैः शोषयेत्ततः ।
पीतं स्नुहीगतं दुग्धं सैन्धवं शूलनुद्भवेत् ॥
१,१८५.३० ॥