पूर्वखण्डः (आचारकाण्डः), अध्याय 181, Verse 1
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकाशीत्यधिकशततमोऽध्यायः श्रीगरुडमहापुराणम्- १८२ हरिरुवाच ।
शरद्ग्रीष्मवसन्तेषु प्रायशो दधि गर्हितम् ।
हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते ॥
१,१८२.१ ॥