पूर्वखण्डः (आचारकाण्डः), अध्याय 18, Verse 1
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सूर्यार्चन विधिर्नाम सप्तदशोऽध्यायः श्रीगरुडमहापुराणम्- १८ सूत उवाच ।
गरुडोक्तं कश्यपाय वक्ष्ये मृत्युञ्जयार्चनम् ।
उद्धारपूर्वकं पुण्यं सर्वदेवमयं मतम् ॥
१,१८.१ ॥