पूर्वखण्डः (आचारकाण्डः), अध्याय 179, Verse 1
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकोनाशीत्यधिकशततमोऽध्यायः श्रीगरुडमहापुराणम्- १८० हरिरुवाच ।
वचा मांसी च बिल्वञ्च तगरं पद्मकेसरम् ।
नागपुष्पं प्रियङ्गुञ्च समभागानि चूर्णयेत् ।
अनेन धूपितो मर्त्यः कामवद्विचरेन्महीम् ॥
१,१८०.१ ॥