पूर्वखण्डः (आचारकाण्डः), अध्याय 17, Verse 1
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे हरिध्यानसूर्यार्चनयोर्निरूपणं नाम षोडशोऽध्यायः श्रीगरुडमहापुराणम्- १७ हरिरुवाच ।
पुनः सूर्यार्चनं वक्ष्ये यदुक्तं धनदाय हि ।
अष्टपत्रं लिखेत्पद्मं शुचौ देशे सकर्णिकम् ॥
१,१७.१ ॥