पूर्वखण्डः (आचारकाण्डः), अध्याय 158, Verse 1
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मूत्राघातमूत्राकृच्छनिदान नामाष्टपञ्चाशदुत्तरशततमोऽध्यायः श्रीगरुडमहापुराणम्- १५९ धन्वन्वरिरुवाच ।
प्रमेहाणां निदानन्ते वक्ष्येऽहं शृणु सुश्रुत ! ।
प्रमेहा विंशतिस्तत्र श्लेष्मणो दश पित्ततः ॥
१,१५९.१ ॥